Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 353
________________ प्रत्यक्षलक्षणपरीक्षा ३२७ गृह्यमाणं सविकल्पकविज्ञानगोचरं स्यात्, किन्तु निर्विशेषं गृहीता भेदा एव सामान्यमित्युच्यन्ते । प्रतिनियतस्वरूपनिरपेक्षाः प्रतीयमानाः सामान्यशब्दाभिधेया इति यावत् । ततश्च कुतस्तस्माद्विशेषात् सामान्यस्य विशिष्टत्वम्, येन तद्ग्राहकस्य सविकल्पना भवेत् ॥ १२७५ ॥ कथं तर्हि सामान्यविशेषयोरसङ्कीर्णा व्यवस्था ? इत्याहवैषम्यसमभावेन ज्ञायमाना इमे किल । प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि ॥ १२७६ ॥ एत एव हि भेदाः समविषयतया सम्प्रज्ञायमाना यथाक्रमं सामान्यविशेषाभिधानाभिधेयतामनुभूय सामान्यविशेषव्यवहारयोर्विषयभेदं प्रकल्पयन्ति ॥ १२७६ ॥ वैषम्यसमभावोऽयमित्यादिना प्रतिविधत्ते वैषम्यसमभावोऽयं प्रविभक्तो यदीष्यते । सामान्यस्य विशिष्टत्वं तदवस्थं विशेषतः ॥ १२७७ ॥ अथाविभक्त एवायमसङ्कीर्णा स्थितिः कथम् । अन्योन्यपरिहारेण स्थितेर्गत्यन्तरं न च ॥ १२७८ ॥ प्रविभक्तइति अमिश्रः । अन्यदेव सामान्यम्, अन्य एव विशेष इति यावत् । [G.383] सामान्यस्य विशेषतो विशिष्टत्वमित्युपलक्षणम्। तथा विशेषस्यापि सामान्यतो विशिष्टत्वमेव; द्वयोरपि परस्परस्वभावविवेकेन प्रतिभक्तत्वात् । असङ्कीर्णा स्थितिरिति अमिश्रीभूता । यथोक्तं तैनैव सुमतिना - " सत्तादिसामान्यस्वभावानुविद्ध एव विशेषः साक्षात्क्रियते नान्यथा, ततो विकल्पविषयत्वमेव' विशेष्यस्य युक्तं रूपम् । सामान्यं पुनरशेषविशेषनिरपेक्षं साक्षात्कर्तुं शक्यत इत्यबिरुद्धमस्याविकल्पविषयत्वम् - इतीयभसङ्कीर्णा स्थितिर्न स्यात् । न प्रविभक्तो नाप्रविभक्त इष्यते ( ) इति चेदाह - अन्योन्येत्यादि । अन्योन्यपरिहारस्थितिलक्षणानामेकस्वभावनिषेधस्यापरबिधिनान्तरीयकत्वान्न राश्यन्तरमस्ति ॥ १२७७-१२७८ ॥ अपि च निर्विशेषं गृहीता भेदा इति परस्परव्याहतमिति दर्शयान्नाह— • विशेषात्मातिरेकेण नापरं भेदलक्षणम् । तद्रूपास्पर्शने तेषु ग्रहणं कथमुच्यते ॥ १२७९ ॥ तद्रूपस्पर्शने चापि भेदान्तरविभेदिनः । गृहीता इति विज्ञानं प्राप्तमेषु विकल्पकम् ॥ १२८० ॥ भेदेभ्यो हि नान्यो विशेषः, तस्य च विशेषस्य सामान्यग्राहिणा ज्ञानेनासंस्पर्शे कथं भेदास्तेन गृहीता भवेयुः, अगृहीतस्वभावाव्यतिरेकात्तेऽप्यगृहीता एवेति भावः । अथ गृहीता इति मतम् ? तदा तद्रूपसंस्पर्शने - भेदरूपसंस्पर्शने ग्रहणे, गृहीताव्यतिरेकाद् गृहीतस्वभाववद् विशेषोऽपि गृहीत एवेति, एषु = भेदेषु, यत् सामान्यविषयत्वेनाभिमतं ज्ञानं तद्विकल्पकं प्राप्तम् ॥ १२७९-१२८० ॥ किञ्च - मा भूत्राम सामान्यस्य विशेषाव्यतिरेकात् ततो विशिष्टत्वम्, तथापि १. अन्योन्यापरि०- पा०, गा० । २. विशिष्टविष०- पा०, गा० ।

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444