Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 374
________________ ३४८ तत्त्वसंग्रहे शब्ददीपादयो घटाद्यर्थगता धर्माः । अथ च प्रतीयते शब्दादेः सकाशादर्थ इति विपक्षभावोऽन्यथानुपपन्नत्वं चेति द्विरूपो हेतुः ॥ १३७७-१३७८ ॥ [G.408] तदित्यादिना प्रतिविधत्ते तदिदं लक्षणं हेतोः किं सामान्येन गम्यते। जिज्ञासितविशेषे वा धर्मिण्यथ निदर्शने॥१३७९॥ ... तत्र साध्येनाविनाभावित्वं हेतोः सामान्येन वा स्याद्, धर्मिविशेषापरिग्रहाद् विशेषेण वा स्यात्, धर्मिविशेषहरिग्रहाद् विशेषेऽपि, जिज्ञासितविशेषसाध्यधर्मिणि वा स्याद्, दृष्टान्तधर्मिणि वा-इतीयन्तः पक्षाः सम्भाव्यन्ते ॥ १३७९॥ तत्र प्रथमे दोषमाह सामान्येन गते तस्मिन्नेवं चेत् साध्यधर्मिणि। हेतोः सत्त्वं प्रकाश्येत न विवक्षितसिद्धिभाक्॥१३८०॥ न ह्यविनाभावित्वमात्रेणैव विना पक्षधर्मत्वं शब्दे धर्मिणि चाक्षुषत्वमनित्यत्वस्य गमकं दृष्टमित्ययुक्तः प्रथमः पक्षः। न विवक्षितसिद्धिभागिति। साध्यधर्मिणि न विवक्षितां सिद्धिं भजेदित्यर्थः ॥ १३८० ॥ कथम्? इत्याह तद्यथा चाक्षुषत्वस्यं नाशेनाव्यभिचारिता। सामान्येन गता तच्च ध्वनौ तस्य न साधनम्॥१३८१॥ तस्य धर्मिणि सद्भावः ख्याप्यते चेत् तथा सति। सैव त्रिरूपताऽऽयाता भवतामपि दर्शने॥१३८२॥ तच्चेति चाक्षुषत्वम्। तस्येति नाशस्य। साधनम् गमकम् । अथ मा भूद् यथोक्तदोष इति तस्य हेतोः साध्यधर्मिणि सद्भाव आश्रीयते? एवं सति तदेव त्रिरूपत्वं हेतुलक्षणमस्मदीयं भवदर्शनेऽपि जातम्॥१३८१-१३८२॥ . कथम्? इत्याह अन्यथाऽनुपपत्त्या हि व्यतिरेकान्वयौ गतौ। तस्य धर्मिणि सद्भावात् पक्षधर्मत्वसंश्रयः॥१३८३॥ अन्वयः सपक्षे सत्त्वम्, व्यतिरेक:-विपक्षासत्त्वम्, संश्रयणम्-संश्रयः, परिग्रह इति यावत् ॥ १३८३॥ ग्राह्यधर्मस्तदंशेन व्याप्तो हेतुरितीदृशम्। आचार्यैरपि निर्दिष्टमीदृक्संक्षेपलक्षणम् ॥१३८४ [G.409] ग्राह्यधर्म इति । ग्राह्यस्य साध्यधर्मिणो धर्मः पक्षधर्म इति यावत्। आचार्यै रित्यनेन तन्मताविरोधं प्रतिपादयति ॥ १३८४ ॥ २. धर्मिविशेषणपरि०- पा०, गा०॥ ३. ०नुपपत्यादि-पा०। ४-४. पाठोऽयं जै० पुस्तके 'यावत्' इत्यस्यानन्तरं विद्यते। ५. पा० गा०, पुस्तकयोः ‘आचार्यः' इत्यादिकारिकार्धतः पूर्वम् 'ग्राह्यधर्मः' इत्यादिकारिकाध स्थापितम्, एतत्क्रमेणैव चास्य पञ्जिकापि स्थापितेति ध्येयम्। १. ०नुपपत्रं- जै०।

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444