Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 380
________________ ३५४ तत्त्वसंग्रहे तस्यां च प्रतिपाद्यायां वैलक्षण्यमतिस्फुटम्। विवक्षासम्मुखीभावे न हि शब्दः प्रयुज्यते ॥१४०९॥ दीपस्तु ज्ञापको नैव नीलादेर्लिङ्गभावतः। ज्ञानोत्पादनयोग्यस्य जननात्तु तथोच्यते ॥१४१०॥ ज्ञापके लिङ्गरूपे च पक्षधर्मादि चिन्त्यते। अन्यथा चक्षुरादीनां कस्मादेतन्न चोद्यते ॥१४११॥ अन्यथानुपपत्त्याऽपि चाक्षुषत्वं न सांधकम्। पक्षधर्मवियोगेन क्लीबास्तेनैकलक्षणाः ॥१४१२॥ एकरूपतयोक्तानां द्वैरूप्यं चोपलक्षितम्।.. द्विरूपत्वेन चोक्तानां त्रैरूप्यं . पक्षधर्मतः ॥१४१३॥ अन्यथाऽनुपपत्त्यैव चाक्षेपादिति चेन्न तत्। ' ' . शब्दादावन्यथापीष्टे चाक्षुषत्वेन' 'चास्त्यसौ ॥ १-४१४॥ . अन्यथेत्यादि प्रकृतार्थोपसंहारः । यतश्चाक्षुषत्वमनित्यत्वाविनाभाव्यपि शब्दे तदनित्यत्वं न साधयति, यतश्चावश्यं सर्वत्र पक्षधर्मत्वमाश्रयणीयम्; अतः पक्षधर्मत्वाश्रयणादेकरूपतयोक्तानां द्वैरूप्यमावश्यकम्, द्विरूपतया चोक्तानां त्रैरूप्यम्, तत एव पक्षधर्मत इत्येकलक्षणा एव क्लीबा हेतवः । न चैतद्वक्तव्यम्-अन्यथानुपपत्त्यैव पक्षधर्मादय आक्षिप्ताः, अतः पृथक् स्वातन्त्र्येण न तेषां लक्षणत्वमिति; यत: पंक्षधर्मत्वमन्तरेणाप्यन्यथानुपपन्नत्वमस्तीति स्वयमेवोक्तम् "अन्यथानुपपत्त्यैव 'शब्ददीपादिवस्तुषु । __ अपक्षधर्मभावेऽपि दृष्टा शापकतापि च ॥" (तत्त्व० १३७७) इति। चाक्षुषत्वे चानित्यत्वान्यथानुपपन्नोऽसौ पक्षधर्मो नास्तीत्यनेकान्त एव ॥ १४०८१४१४॥ यदुक्तम्-'स श्यामस्तत्पुत्रत्वादित्येष त्रिलक्षणोऽपि न निश्चित्यै प्रवर्त्तते' (तत्त्व० १३६९) इति, अत्राह तत्पुत्रत्वादिहेतूनां सन्दिग्धव्यतिरेकतः। न त्रैलक्षण्यसद्भावो विजातीयाविरोधतः ॥१४१५॥ [G.416] तत्पुत्रश्च भविष्यति न च श्याम इति नात्र कश्चिद् विरोध इति सन्दिग्धविपक्षव्यावृत्तिकत्वान्नायं त्रिलक्षण इत्यसिद्धो दृष्टान्तः ॥ १४१५ ॥ .. स्यादेतत्-असत्येवं विरोधः, कारणाभेदे सति यदि कार्यं भिद्येत निर्हेतुकं स्यात् ? इत्याह कर्माहारादिहेतूनां सर्वथापि विशेषतः। सम्भाव्यतेऽन्यथाभावस्तत्पुत्रत्वेऽपि तस्य हि ॥१४१६॥ १-१.०ऽथ ना०-पा०, गा० । २.शब्दादिवस्तुषु-पा०, गा० । ३.०नुपपत्रेऽप्यसौ-पा०, गा० । ४. त्रिलक्षणे०-पा०, गा०।

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444