Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 383
________________ अनुमानपरीक्षा ३५७ ज्ञानमेवात्र तथाभूतं कार्यं लिङ्गमभिप्रेतम्, न तु बाह्यं प्रतिबिम्बाख्यं वस्तु ॥१४२७१४२८॥ ___ कथमुक्तम्-"त्रिरूपलिङ्गवचनं परार्थं पुनरुच्यते" (तत्त्व० १३६२) इति, यावता पक्षनिगमोपनयवचनमप्यन्यैः परार्थमनुमानं कीर्तितम् ? एतदेव दर्शयन्नाह प्रतिज्ञादिवचोऽप्यन्यैः परार्थमिति वर्ण्यते। असाधनेत्यादिना प्रतिविधत्ते ___ असाधनाङ्गभूतत्वात् प्रतिज्ञाऽनुपयोगिनी ॥१४२९॥ सिद्धिः साधनम्, प्रमेयाधिगतिरिति यावत्, तस्याङ्गभूतम्=कारणम्, तस्य प्रतिषेधोऽसाधनाङ्गभूतत्वम्। तस्मादसाधनाङ्गभूतत्वादनुपयोगिनी न प्रयोक्तव्येत्यर्थः । अन्यथानुपयोगिनी-अकारणभूतेति व्याख्याने प्रतिज्ञार्थंकदेश: स्यात् ॥१४२९ ॥ [G.419] कथमसाधनाङ्गम्? इत्याह असम्बन्धान साक्षाद्धि सा युक्तार्थोपपादिका। असक्तसूचनानापि पारम्पर्येण युज्यते ॥१४३०॥ साध्यसाधनधर्मस्य विषयस्योपदर्शनात् । दृष्टान्तपदवत्त्वेषा' साधनाङ्गं . यदीष्यते ॥१४३१॥ अभ्यनुज्ञादिवाक्येन नन्वत्र व्यभिचरिता। निष्फलं च तदाप्यत्र विषयस्योपदर्शनम् ॥१४३२॥ असक्तसंसूचकत्वं तु साध्यस्यैवाभिधानात्। एतदुक्तं भवति-शब्दानामर्थेन सह सम्बन्धाभावानं तावत् साक्षादुपयुज्यते, नापि हेतुवचनवत् पारम्पर्येण; सक्तासंसूचकत्वादिति। यथोक्तम् . तत्पक्षवचनं वक्तुरभिप्रायनिवेदने। .. प्रमाणं' संशयोत्पत्तेस्ततः साक्षान्न साधनम्॥ . साध्यस्यैवाभिधानेन पारम्पर्येण नाप्यलम्॥" (प्र० वा० ४.१६-१७) इति। केचिन्मन्यन्ते-"साध्यसाधनधर्मयोर्विषयोपदर्शनार्थमनवयवभूताऽपि सती दृष्टान्तपदवत् प्रतिज्ञा प्रयोक्तव्येति; 'यतो रूपद्वयं शेषं दृष्टं तेन प्रदर्श्यते' ( ) इति वचनात्, दृष्टान्तपदं पृथगनवयवभूतमपि पक्षधर्मव्यतिरिक्तरूपद्वयप्रदर्शनार्थमेव प्रयुज्यते" इति । तान् प्रत्याह- दृष्टान्तेत्यादि।अभ्यनुज्ञावाक्यम्-एवं कुरु शब्दमनित्यं साधयेति। आदिशब्देनाऽऽज्ञाऽभ्यर्थनावाक्यं गृह्यते। एवम्भूतस्यापि वाक्यस्य प्रयोगनिर्देशार्थं निर्देश: स्यात्, न ह्येभिरपि विनाऽकाण्ड एव साधनस्य प्रवृत्तिः सम्भवतीति। निष्फलमिति । विनापि तेन साध्यप्रतीतेः। तथा हि-यत् कृतकं तत् सर्वमनित्यम्। 'कृतकश्च शब्दः' इत्येतावन्मात्रे प्रोक्ते 'अनित्यः शब्दः' इति प्रतीतिर्भवत्यन्तरेणापि प्रतिज्ञावचनम् ॥ १४३०-१४३२॥ १. अनुपयोगिनी-पा०, गा०। २. त्वेष-पा०, गा० । ४. चक्रु०-पा०, गा०॥ ५. प्रापणं-पा०, गा०॥ ३. तदा यत्र-पा०, गा०।

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444