Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 373
________________ ३४७ अनुमानपरीक्षा चन्द्रत्वेनापदिष्टत्वानाचन्द्रः शशलाञ्छनः। इति द्विलक्षणो हेतुरयं चापर उच्यते॥१३७१॥ [G.407) नाचन्द्रः शशी, चन्द्रः शशीति वा पक्षः, लोके सम्प्रदायप्रसिद्धचन्द्रव्यपदेशाचन्द्रत्वेनापदिष्टत्वादिति वा हेतुः । वैधhण लोष्टादि॥ १३७१ ॥ पतत्कीटकृतेयं मे वेदनेत्यवसीयते। पतत्कीटकसंस्पर्शप्रतिलब्धोदयत्वतः ॥१३७२॥ चक्षु रूपग्रहे कार्ये सदाऽतिशयशक्तिमत्। तस्मिन् व्यापार्यमाणत्वाद् यदि वा तस्य दर्शनात्॥१३७३॥ अयं चापरो द्विलक्षण उच्यते-पतत्कीटककृतेयं मम वेदना पतत्कीटकसंस्पर्शप्रतिलब्धोदयत्वात्। पततः कीटकस्य पतङ्गस्य स्पर्शेन प्रतिलब्ध उदय: उत्पादो ययेत्यर्थः । सामान्यविवक्षा चात्रान्यपदार्थे द्रष्टव्या, तेन टान भवति। . विद्यमानरूपग्रहणसांधकतमशक्तिकं चक्षुः, अनुपहतत्वे सति रूपदिदृक्षायां प्रेक्षापूर्वकारिणा करणत्वेन व्यापार्यमाणत्वात्, रूपपरिच्छेदनदर्शनाद्वा। वैधण श्रोत्रादि। तस्योत रूपस्य। अत्र त्रिष्वपि हेतुषु सपक्षाभावाद् द्विरूपत्वम्॥१३७२-१३७३॥ कथञ्चिदसदात्मानो यदि वाऽऽत्मघटादयः। कथञ्चित्रोपलभ्यत्वात् खरसम्बन्धिशृङ्गवत्॥१३७४॥ कथञ्चन सदात्मानः शशशृङ्गादयोऽपि च। कथञ्चिदुपलभ्यत्वाद् यथैवाऽऽत्मघटादयः॥१३७५॥ आत्मघटादयः कथञ्चिदसदात्मानः; कथञ्चिदनुपलभ्यमानत्वात्, खरविषाणवत्। अत्र वैधर्म्यदृष्टान्तो न विद्यते। घटादिः सर्वो भवात्मको राशिः कथञ्चिदसदात्मकत्वेन प्रतिज्ञातः, अभावश्च साधर्म्यदृष्टान्तत्वेनोपन्यस्तः । न च भावाभावव्यतिरिक्तं तृतीयमस्ति, यत्र साध्यव्यवच्छेदपूर्वकः साधनव्यवच्छेदो निर्दिश्येत। खरविषाणादयो वा कथञ्चित् सदात्मकाः; कथञ्चिदुपलभ्यमानत्वात्, आत्मघटादिवत्। अत्रापि पूर्वकयैव युक्त्या वैधर्म्यदृष्टान्ताभावो योजनीयः ॥ १३७४-१३७५ ॥ त्वदीयो वापि तत्रास्ति वेश्यमनीत्यवगम्यते। - भावत्कपितृशब्दस्य श्रवणादिह सानि॥१३७६ ॥ प्रतिपाद्यमानत्वदीयपितृकमिदं गृहम्, श्रूयमाणत्वदीयपितृकस्वरत्वात्। अत्र किल साधर्म्यदृष्टान्तो नास्तीति द्विरूपता ॥ १३७६ ॥ .. अन्यथाऽनुपपत्त्यैव . शब्ददीपादिवस्तुषु। अपक्षधर्मभावेऽपि दृष्टा ज्ञापकतापि च॥१३७७॥ तेनैकलक्षणो हेतुः प्राधान्याद् गमकोऽस्तु नः। .. पक्षधर्मादिभिस्त्वन्यैः किं व्यर्थः परिकल्पितैः॥१३७८॥ तथा शब्ददीपादीनां धूमादिलिङ्गवज्ज्ञापकत्वं दृष्टमसत्यपि पक्षधर्मत्वे, न हि १-१. हेतुष्वसत्याषु साधर्म्यदृष्टान्ताभा०-पा०, गा० ।

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444