Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 371
________________ १८. अनुमानपरीक्षा अनुमानस्येदानी लक्षणमाह स्वपरार्थविभागेन त्वनुमानं द्विधेष्यते। स्वार्थ त्रिरूपतो' लिङ्गादनुमेयार्थदर्शनम्॥१३६१॥ त्रिरूपलिङ्गवदनं परार्थं पुनरुच्यते। अनुमानं स्वार्थपरार्थभेदेन द्विविधम्। तत्र स्वार्थं यत् त्रिरूपाल्लिङ्गात् पक्षधर्मत्वम, सपक्षे सत्त्वम्, विपक्षाच्च सर्वतो व्यावृत्तिः-इत्येवंलक्षणादनुमेयार्थविषयं ज्ञानं तदात्मकं बोद्धव्यम्। परार्थं तु यथोक्तत्रिरूपलिङ्गप्रकाशकवचनात्मकं द्रष्टव्यम्। अथानुमानाभावस्य किं लक्षणं नोक्तम्? इत्याह . एकैकद्विद्विरूपोऽर्थो लिङ्गाभासस्ततो मतः॥१३६२॥ नित्यः शब्दः कृतंकत्वान्मूर्तत्वादप्रमेयत्वात्-इत्येकैकरूपो यथाक्रमं पक्षधर्मत्वसपक्षसत्त्वविपक्षव्यावृत्तिमात्रस्य विद्यमानत्वात्। तत्र द्विद्विरूपो यथा-ध्वनिरनित्यश्चाक्षुषत्वाच्छावणत्वादमूर्तत्वात्- इति यथाक्रमं पक्षधर्मत्व-सपक्षसत्त्व-विपक्षव्यावृत्तिमात्राभावात्। तदुक्तम्- . . .. "कृतकत्वाद् ध्वनिर्नित्यो मूर्तत्वादप्रमेयतः। अमूर्तश्रावणत्वाभ्यामनित्यश्चाक्षुषत्वतः ॥" .. ( ) इति ॥ १३६१-१३६२॥ [G.405]अन्यथेत्यादिना पात्रस्वामिमतमाशङ्कते- . . अन्यथानुपपनत्वे ननु दृष्टा सुहेतुता। नासति त्र्यंशकस्यापि तस्मात् क्लीबास्त्रिलक्षणाः॥१३६३॥ स ह्याह-"अन्यथाऽनुपपनत्व एव शोभनो हेतुः न तु पुनस्त्रिलक्षणः । तथा हिअसत्यन्यथानुपपन्नत्वे त्र्यंशकस्यापि तत्पुत्रत्वादेर्न दृष्टा सुहेतुता। तस्मात् क्लीबा:= असक्ताः, त्रिलक्षणा हेतवः" इति। अन्यथेति। साध्येन विनाऽनुपपन्नत्वम्, हेतोः साध्य एव सत्त्वमित्यर्थः ॥ १३६३॥ ...अन्यथानुपपन्नत्वं यस्यासौ हेतुरिष्यते। एकलक्षणकः सोऽर्थश्चतुर्लक्षणको न वा॥१३६४॥ ___ अन्यथेत्यादिना सविस्तरमन्वयव्यतिरेक्सन्दर्शनेनान्यथानुपपन्नत्वमेवैकलक्षण हेतुं समर्थयते । एकं लक्षणमन्यथाऽनुपपन्नत्वं यस्यास्ति स एकलक्षणः । स एव लौकिकैः परीक्षकैर्वा हेतुरिष्यते, नान्यः । अर्थापत्त्या तु पक्षधर्मत्वादित्रयमनेनैवाक्षिप्यत इति चतुर्लक्षणकोऽपि वा भवतु। न वा चतुर्लक्षणः; यस्मात् क्वचिदेकलक्षणो द्विलक्षस्त्रिलक्षणोऽपि वा न्याय्यः । तस्मादन्यथानुपपत्तिरेकं लक्षणम्, तेनैकलक्षण इति व्यपदिश्यते; अन्यथाऽनुपपत्ति१. स्वरूपतो-जै०। २. ०वचनं-पा०, गा०। ३. पक्षसत्त्व०-पा०, गा०। . ४. नुपपन्नत्वैक-पा०, गा० ।

Loading...

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444