Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 370
________________ ३४४ तत्त्वसंग्रहे असत्तुल्यत्वात् तस्य। न चाभ्रान्तत्वनिश्चयोऽर्थक्रियासंवादात् प्रागस्ति, न ह्यग्दिर्शनास्तत्कार्याधिगममन्तरेण यथार्थतां ज्ञानस्य ज्ञातुमीशते; तेषां नित्यं पदार्थशक्तेः कार्यानुमेयत्वात्। यथोपदर्शितार्थप्रापणसामर्थ्यलक्षणत्वाच्च यथार्थतायाः । न चोत्तरकालं यथार्थतावधारणेऽपि साफल्यमस्ति, ततः पुनरप्रवृत्तेः ? तदेतदचोद्यम्; तथा हि-केशोण्ड्रकादिबुद्धीनापि प्रामाण्यप्रसङ्गान्माभूदतिव्यापिता लक्षणदोष:- इत्यतोऽवश्यकरणीयमभ्रान्तग्रहणमित्युक्तम्। यश्चापि प्रवृत्तेः प्रागनिश्चयहेतुरर्वाग्दर्शित्वमुच्यते, सोऽप्यनैकान्त एव। को ह्यत्र प्रतिबन्धो यदग्दिर्शिभिर्न क्वचित् सामर्थ्य निश्चेतव्यमिति! एवं हि न किञ्चित्तैर्निश्चेयमिति प्राप्तम्। ततश्चाचेतनत्वमेव तेषामायातम्; यावता पशुशिशवोऽप्यभ्यासबलादुद्भूतभूतज्ञानवासनावृत्तयः ‘सुखस्य साधनमेतद्, एतदसुखस्य' इति प्रवृत्तेः प्रागपि निश्चित्य प्रपातादि परिहरन्तः स्तनादि चोपाददानाः सन्दृश्यन्त एव। तथा हि- अभूतमपि भावयतां कामशोकभयाद्युपप्लुतचेतसामनपेक्षितसाधादिस्मृतेरभ्यासस्य स्फुटप्रतिभासस्य ज्ञानोत्पादनसामर्थ्यमुपलभ्यत एव। .यत्र तु पुनर्नाभ्यासस्तत्र तेषां कार्यानुमेयैव शक्तिः, न तु सर्वत्र । एतेन धूमादिलिङ्गनिश्चयोऽपि व्याख्यातः; यतस्तत्रापि तत्कार्यस्य धूमादेः प्रकृत्या परस्परमत्यन्तविविक्तस्वभावत्वात्, तद्विवेकनिश्चयस्य चाभ्यासादिहेतुत्वाल्लिङ्गनिश्चयसम्भवात्। अतो नानुमानप्रतिक्षेपः। [G.404) नन्वाद्यायां प्रवृत्तौ सत्यामभ्यासः सिध्यति, यावता सैव कथं भवतीति वक्तव्यम् ? उच्यते; संशयात् । संशयहेतोः प्रत्यक्षस्य कथं तत्र प्रामाण्यमिति चेत् ? निश्चयहेतोरपि कथं प्रामाण्यम्! अवसायोत्पादनादर्थिनस्तत्र प्रवर्तनादिति चेत्? तदेतत् संशयहेतोरपि तुल्यम्। यद्यपि तत्र प्रतीयमानार्थितार्थाकारविपरीतो व्यवसायः, तथापि न तेनाकारेण तस्य प्रत्यक्षस्य प्रवर्तकत्वम्, तथाऽवसितस्यानर्थित्वात्। नापि निर्तकत्वम्, प्रतीयमानप्रार्थितार्थाध्यवसायहेतुत्वेनार्थिनः प्रवर्त्तनात् । अन्यथा हि संशयहेतोः प्रत्यक्षादर्थी न प्रवर्तेत, नापि निवर्तेतेति प्राप्तम्, न चैवं भवति; अपि तु-अर्थिनामसम्भावितानर्थोदयानामर्थितया प्रवृत्तेरेव बलीयस्त्वम्। अनेन चांशेन निश्चयहेतोः प्रत्यक्षादस्य न कश्चिद् विशेषः । यत्र त्वेकान्तेन प्रतीयमानाविपरीताकारावसायहेतुत्वमेव, अवसानानुत्पादकत्वं वा; तत्र यस्यसर्वथार्थिनोऽप्रवर्त्तनादप्रामाण्यमेवेति युक्तं वक्तुम्, नान्यत्रेत्यलम्॥ १३५८-१३६० ॥ इति प्रत्यक्षलक्षणपरीक्षा॥ १. तदतत्-पा०. तदेतत्-गा।

Loading...

Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444