Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
________________
३४२
तत्त्वसंग्रहे इदमपरमुक्तं कुमारिलेनैव-"स्वसंवेदनस्य निषेधात् तस्य प्रमाणफलत्वमयुक्तम् । विषयाकारस्य च प्रामाण्ये सति प्रमाणफलयोभिन्नविषयत्वं प्रसज्यते। तथा हि-विषयाकारो बाह्यविषयः, स्वसंवेदनं तु ज्ञानस्वरूपविषयम्" ( ) इति ॥ १३४९-१३५० ॥ [G.401] सर्वेत्यादिना प्रतिविधत्ते
सर्वावित्तिप्रसङ्गेन सा निषेद्धं न शक्यते।।
भिन्नार्थत्वं न चेहास्ति स्वविदप्यर्थविन्मता॥१३५१॥ "अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति"( ) इति सर्वार्थाप्रत्यक्षत्वप्रसङ्गान शक्यते स्वसंवित्तिनिषेद्धम्। नापि भिन्नविषयत्वप्रसङ्गो युक्तः, यतः स्वसंवित्तिरप्यर्थसंवित्तिरिष्टा; तत्कार्यत्वात्, न तु तन्मयत्वेन । स्वसंवित्तिस्तु ताद्रूप्यादिति न विरोधः ॥१३५१॥ स्वातिरिक्तेत्यादिना शङ्करस्वामी प्रमाणयति
स्वातिरिक्तक्रियाकारि प्रमाणं कारकत्वतः। वास्यादिवच्चेद् वैफल्यमन्यद्धयपि फलं मतम्॥१३५२॥ उक्तन्यायेन वास्यादेरन्यदस्ति फलं न च। कारकत्वं च नो सिद्धं जनकत्वविवक्षया॥१३५३॥ स्थापकत्वविवक्षाया न विरोधोऽस्ति कश्चन। .
तेनानैकान्तिको हेतुर्विरोधाप्रतिपादनात्॥१३५४॥ आत्मव्यतिरिक्तक्रियाकारि प्रमाणं कारकत्वाद्, वास्यादिवदिति। वैफल्यमित्यादिना दूषयति। विफलम्; सिद्धसाध्यतादोषात् । यतोऽन्यदपि जन्यं फलं परिच्छेदेत्यदिना कथितम्। हिशब्दो हेतौ।'वास्यादिवत्' इति च साध्यविकलो दृष्टान्तः; छिदया सहैकत्वस्य प्रतिपादितत्वात्। 'कारकत्वात्' इति च जन्यजनकत्वविवक्षायामसिद्धो हेतुः; स्थापकत्वे-नैवेष्टत्वात्। साधनस्य स्थापकत्वविवक्षायामप्यनैकान्तिकः; विरोधाभावात् । सामान्यविवक्षायामनैकान्तिक एव; विरोधस्यानुपदर्शितत्वात् ॥ १३५२-१३५४ ॥
ननु च यदि विषयाकारं ज्ञानं स्यात्, तदा भवेद्विषयसारूप्यस्य प्रामाण्यम्; यावता ग्राह्यविषयसमानाकारं समानस्वभावं ज्ञानमुपपद्यते, नैव तथा, ग्राह्याज्जात्यन्तरत्वाद्रूपरसयोरिव? इत्याह
ग्राह्यसाधारणाकारं यस्माज्जात्यन्तरत्वतः। रसरूपादिवज्ञानं नैव चेदुपपद्यते॥१३५५ ॥ न्यायानुसरणे सर्वमस्माभिरुपवितम्।
इदमन्यच्च विस्पष्टं ग्राह्यग्रहविवेचने॥१३५६॥ [G.402] विज्ञानवादन्यायानुसारिभिरस्माभिरेतदिष्टमेवेति न किञ्चित् क्षीयते । तथा हि-यत् किञ्चिदिदमस्पष्टं भवता ग्राह्यदूषणमभिहितम्, इदं तु स्पष्टं ग्राह्यविवेचनाय साधनमभिधीयतेऽस्माभिः । ग्राह्ये ग्रह:=अभिनिवेशः; तस्य विवेचनम्= अपनयनम् ॥ १३५५-१३५६ ॥ किं तत् स्पष्टं साधनम्? इत्याह
सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत्। .
Page Navigation
1 ... 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444