Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 367
________________ प्रत्यक्षलक्षणपरीक्षा ३४१ ज्ञानं हि विषयाकारमुत्पद्यमानं विषयं परिच्छिन्ददिव सव्यापारमिवास्तीति । अयमेवार्थप्रापणव्यापारो ज्ञानस्य, न त्वविनाभावित्वमात्रम्। न हि बीजाद्यविनाभाविनोऽङ्करादयो न भवन्ति । येन ज्ञानमेव प्रमाणं स्यात् । तस्मात् साकारमेव ज्ञानं प्रमाणम्, न निराकारम्-इति व्यवस्थया प्रामाण्येन प्रदर्श्यते । व्यवस्था च तत्पृष्टलब्धेन विकल्पेन वेदितव्या॥ १३४५ ॥ अत उत्प्रेक्षित इत्यादिना लोकप्रसिद्ध्यबाधामाह अत उत्प्रेक्षितो भेदो विद्यते धनुरादिवत्। उत्पाद्योत्पादकत्वेन व्यवस्थेयं तु नेष्यते॥१३४६॥ धनुरादिवदिति। धनुर्विध्यति, धनुषा विध्यति, धनुषो निःसृत्य शरो विध्यतीति यच्चैकस्य धनुषः कर्तृत्वादयः कल्पिता न विरुध्यन्ते, तथेहापीति ॥ १३४६ ॥ विyिष्यमाणसन्धौ च दादौ परशुच्छिदा। प्रविशत्रुच्यते तेन तत्रैकत्वमवस्थितम्॥१३४७॥ परशुना च वृक्षादेश्छिदा निरूप्यमाणा छेद्यद्रव्यानुप्रवेशलक्षणैवावतिष्ठते। स चानुप्रवेश: परशोरात्मगत एव धर्म इति परमार्थतश्छिदया सहैकत्वमिति नास्ति विरोधः ॥ १३४७ ॥ व्यवस्थायां तु जातायां कल्प्यतामन्यथापि हि। उत्पाद्योत्पादकत्वेन संस्थानविधिरुच्यते॥१३४८॥ [G.400] व्यवस्थायामित्यादिनैतद्दर्शयति । यथा कुमारिलेन"परिच्छेदफलत्वेन" (श्रो.वा. प्र. सू. ७८) इत्यादिना ग्रन्थेनोत्पाद्योत्पादकभावेन प्रमाणफलव्यवस्था कृता, तथाऽस्माकमप्यविरोधिन्येव। यथोक्तमाचार्येण-"तत्रापि हि प्रत्यक्षत्वोपचारोऽविरुद्धश्चक्षुरादिषु तत्कारणेषु" (: ) इति । एतावत्तु ब्रूमः- अवश्यमादौ व्यवस्थाद्वारेणैव साध्यसाधनसंस्था कर्तव्या, न ह्यव्यवस्थाप्य संविद्भेदं विषयभेदेन नियमेन प्रवृत्तिर्युक्ता, संविद्भेदव्यवस्थायाश्च सारूप्यमेव निबन्धनमिति सामर्थ्यादेवायातं सारूप्यस्य साधकतमत्वम्, सारूप्यादेव च ज्ञानस्य प्रवर्तकत्वम् । प्रवर्तकस्य च प्रमाणत्वं प्रवृत्तिकामेन निरूप्यते, न व्यसनितया। यथोक्तम्"अर्थक्रियार्थं हि सर्वः प्रमाणमप्रमाणं चान्वेषते प्रेक्षावान्" ( ) इति । यतो येनैवांशेन प्रवर्तकत्वं ज्ञानस्यं भवति स एव दर्शनीयः, न चोत्पाद्योत्पादकभावेन प्रमाणफलव्यवस्थायां प्रवर्तकांशः सारूप्यं गम्यते; ततश्च निष्फलमेवोत्पादद्वारेण प्रमाणव्यवस्थानं स्यात्। अत एवाचार्येणैतद्वारेण प्रमाणव्यवस्थानं न प्रवृत्त्यङ्गमिति मत्वैवोपचार आश्रितः । तस्माज्जातायां तु व्यवस्थायां साऽन्यथाऽप्युत्पाद्योत्पादकभावेन कल्प्यताम्। तथाऽप्यदोष एवेति ॥१३४८ ॥ परिच्छेदेत्यादिना तदेव कौमारिलं फलव्यवस्थानं दर्शयति- परिच्छेदफलत्वेन प्रवृत्तस्यान्तरस्य हि । . कारणत्वं मतं ज्ञाने प्रमाणे तु फलं परम्॥१३४९॥ स्वसंवित्तिफलत्वं चेनिषेधान्नैव युज्यते। माने च विषयाकारे भिन्नार्थत्वं प्रसज्यते॥१३५०॥ वृत्तस्येत । प्रवृत्तस्य चक्षुरादेरित्यर्थः । फलं परमिति। हानोपादानोपेक्षाबुद्धिलक्षणम्। १. ०वाभाति-पा०, गा०। २. ये-पा०। ३. वृत्तस्यानन्तरस्य-पा०, गा।

Loading...

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444