________________
प्रत्यक्षलक्षणपरीक्षा
३४१ ज्ञानं हि विषयाकारमुत्पद्यमानं विषयं परिच्छिन्ददिव सव्यापारमिवास्तीति । अयमेवार्थप्रापणव्यापारो ज्ञानस्य, न त्वविनाभावित्वमात्रम्। न हि बीजाद्यविनाभाविनोऽङ्करादयो न भवन्ति । येन ज्ञानमेव प्रमाणं स्यात् । तस्मात् साकारमेव ज्ञानं प्रमाणम्, न निराकारम्-इति व्यवस्थया प्रामाण्येन प्रदर्श्यते । व्यवस्था च तत्पृष्टलब्धेन विकल्पेन वेदितव्या॥ १३४५ ॥ अत उत्प्रेक्षित इत्यादिना लोकप्रसिद्ध्यबाधामाह
अत उत्प्रेक्षितो भेदो विद्यते धनुरादिवत्।
उत्पाद्योत्पादकत्वेन व्यवस्थेयं तु नेष्यते॥१३४६॥ धनुरादिवदिति। धनुर्विध्यति, धनुषा विध्यति, धनुषो निःसृत्य शरो विध्यतीति यच्चैकस्य धनुषः कर्तृत्वादयः कल्पिता न विरुध्यन्ते, तथेहापीति ॥ १३४६ ॥
विyिष्यमाणसन्धौ च दादौ परशुच्छिदा।
प्रविशत्रुच्यते तेन तत्रैकत्वमवस्थितम्॥१३४७॥ परशुना च वृक्षादेश्छिदा निरूप्यमाणा छेद्यद्रव्यानुप्रवेशलक्षणैवावतिष्ठते। स चानुप्रवेश: परशोरात्मगत एव धर्म इति परमार्थतश्छिदया सहैकत्वमिति नास्ति विरोधः ॥ १३४७ ॥
व्यवस्थायां तु जातायां कल्प्यतामन्यथापि हि।
उत्पाद्योत्पादकत्वेन संस्थानविधिरुच्यते॥१३४८॥ [G.400] व्यवस्थायामित्यादिनैतद्दर्शयति । यथा कुमारिलेन"परिच्छेदफलत्वेन" (श्रो.वा. प्र. सू. ७८) इत्यादिना ग्रन्थेनोत्पाद्योत्पादकभावेन प्रमाणफलव्यवस्था कृता, तथाऽस्माकमप्यविरोधिन्येव। यथोक्तमाचार्येण-"तत्रापि हि प्रत्यक्षत्वोपचारोऽविरुद्धश्चक्षुरादिषु तत्कारणेषु" (: ) इति । एतावत्तु ब्रूमः- अवश्यमादौ व्यवस्थाद्वारेणैव साध्यसाधनसंस्था कर्तव्या, न ह्यव्यवस्थाप्य संविद्भेदं विषयभेदेन नियमेन प्रवृत्तिर्युक्ता, संविद्भेदव्यवस्थायाश्च सारूप्यमेव निबन्धनमिति सामर्थ्यादेवायातं सारूप्यस्य साधकतमत्वम्, सारूप्यादेव च ज्ञानस्य प्रवर्तकत्वम् । प्रवर्तकस्य च प्रमाणत्वं प्रवृत्तिकामेन निरूप्यते, न व्यसनितया। यथोक्तम्"अर्थक्रियार्थं हि सर्वः प्रमाणमप्रमाणं चान्वेषते प्रेक्षावान्" ( ) इति । यतो येनैवांशेन प्रवर्तकत्वं ज्ञानस्यं भवति स एव दर्शनीयः, न चोत्पाद्योत्पादकभावेन प्रमाणफलव्यवस्थायां प्रवर्तकांशः सारूप्यं गम्यते; ततश्च निष्फलमेवोत्पादद्वारेण प्रमाणव्यवस्थानं स्यात्। अत एवाचार्येणैतद्वारेण प्रमाणव्यवस्थानं न प्रवृत्त्यङ्गमिति मत्वैवोपचार आश्रितः । तस्माज्जातायां तु व्यवस्थायां साऽन्यथाऽप्युत्पाद्योत्पादकभावेन कल्प्यताम्। तथाऽप्यदोष एवेति ॥१३४८ ॥
परिच्छेदेत्यादिना तदेव कौमारिलं फलव्यवस्थानं दर्शयति- परिच्छेदफलत्वेन प्रवृत्तस्यान्तरस्य हि । . कारणत्वं मतं ज्ञाने प्रमाणे तु फलं परम्॥१३४९॥
स्वसंवित्तिफलत्वं चेनिषेधान्नैव युज्यते।
माने च विषयाकारे भिन्नार्थत्वं प्रसज्यते॥१३५०॥ वृत्तस्येत । प्रवृत्तस्य चक्षुरादेरित्यर्थः । फलं परमिति। हानोपादानोपेक्षाबुद्धिलक्षणम्। १. ०वाभाति-पा०, गा०।
२. ये-पा०।
३. वृत्तस्यानन्तरस्य-पा०, गा।