SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३४० तत्त्वसंग्रहे अथ प्रकाशात्मकं ज्ञानं स्पष्टमनुभूयत इति नाज्ञानता स्यात् ? एवं सति सुखादिष्वपि सर्वमेतत् समानम्। हेतुश्चानेनैव व्यभिचारीति न किञ्चिदेतत् । तं वक्ष्याम इति सर्वज्ञसिद्धौ ॥१३४१-१३४२॥ प्रमाणफलविप्रतिपत्तिनिराकरणायाह विषयाधिगतिश्चात्र प्रमाणफलमिष्यते। स्ववित्तिर्वा प्रमाणं तु सारूप्यं योग्यतापि वा ॥१३४३॥ बाह्येऽर्थे प्रमेये विषयाधिगमः प्रमाणफलम्, सारूप्यं तु प्रमाणम्। स्वसंवित्तावपि सत्यां यथाकारमस्य प्रथनात्। ज्ञानात्मनि तु प्रमेये स्वसंवित्तिः फलम्, योगयता प्रमाणम्। सव्यापारप्रतीततामुपादाय ज्ञानस्यैव सा तादृशी योग्यता, येन तदेवात्मानं वेदयते न घटादय इति । योग्यतया कारणभूतयैवात्मप्रकाशकं लक्ष्यते ज्ञानमिति योग्यतायाः स्वसंवेदने प्रामाण्यम्। तदुक्तम् "तत्राप्यनुभवात्मत्वात् ते योग्याः स्वात्मसंविदः। इति सा योग्यता मानमात्मा मेयः फलं स्वक्त्॥ि " . (प्र० वा० २.३६६) इति ॥ १३४३ ॥ [G.399] छेदन इत्यादि कौमारिलचोद्यमाशङ्कते छेदने खदिरप्राप्ते पलाशे न छिदा यथा। तथैव परशोर्लोके छिदया नैकतेति चेत्॥१३४४॥ भिन्नप्रमाणफलवादिनं प्रति बौद्धेनोक्तम्- "यदि प्रमाणफलयोर्भेदोऽभ्युपगम्यते, तदा भिन्नविषयत्वं स्यात्प्रमाणफलयोः, न चैतद्युक्तम्; न हि परश्वादिके छेदने खदिरप्राप्ते सति पलाशे छेदो भवति। तस्मात् प्रमाणफलयोरेकविषयत्वादभेदः" इति। अत्रोक्तं कुमारिलेन "विषयैकत्वमिच्छंस्तु यः प्रमाणं फलं वदेत्। साध्यसाधनयोर्भेदो लौकिकस्तेन बाधितः॥ छेदने खदिरप्राप्ते न पलाशे छिदा यथा। तथैव परशोर्लोके छिदया सह नैकता॥" __ (श्लो० वा०, प्रत्य० सू० ७४-७५) इति। छेद्यतेऽनेनेति छेदनम् ॥ १३४४॥ नेत्यादिनोत्तरमाह न व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थितिः। निराकारे तु विज्ञाने सा संस्था न हि युज्यते॥१३४५॥ नीलास्पदं संवेदनं न पीतस्येति विषयावगतिव्यवस्थाया अर्थसारूप्यमेव निबन्धनम्, नान्यत्- इति व्यवस्थाप्यव्यस्थापकभावेन साध्यसाधनव्यवस्था, नोत्पाद्योत्पादकभावेन; यस्मान्न पारमार्थिकः कर्तृकरणादिभावोऽस्ति, क्षणिकत्वेन निर्व्यापारत्वात् सर्वधर्माणाम्। १. व्यभिचारी--पा०। २. पा०, गा० पुस्तकयो स्ति। ३. ०नुभयात्म०-गा।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy