________________
प्रत्यक्षलक्षणपरीक्षा
३३९ किञ्च-आह्लादपरितापादिरूपेण स्पष्टः प्रतिभासो न प्राप्नोति; विकल्पविषयत्वे सति सुखादीनां मानसेनैव चेतसा वेद्यत्वेनाभ्युपगमात्, तस्य च सविकल्पकत्वात्। न च विकल्पानुबद्धस्य स्पष्टार्थप्रतिभासिता। अस्माभिस्तु स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन जनितस्यैव प्रत्यक्षत्वेनाभ्युपेतत्वात्।
__ अपि च-ग्राह्यत्वे सति सुखादीनां विच्छिन्नप्रतिभासिता स्यानीलादिवत्। न च ज्ञानाद्विच्छिन्नस्य शातादिरूपस्योपलब्धिः । ज्ञानाभेदेन शातादिरूपस्य ग्रहणं भ्रान्तिरिति चेत् ? एवं तर्हि सिद्धा सुखादीनां सत्ता स्वसंविद्रूपा; शातादिरूपमात्रलक्षणत्वात् सुखादीनाम्। तद्रूपता चेज्ज्ञानस्य सिद्धा, सिद्धा ज्ञानस्वभावाः सुखादयः । व्यतिरिक्तानां त्वसिद्धत्वाद् भ्रान्त्यसिद्धेः । शातेत्यनुकूला, तद्विपरीता त्वशाता। आदिशब्देनोपेक्षा गृह्यते।
यदि च स्वसन्तानोत्पत्तिलक्षणैव या सुखादीनां सत्ता सा एव तेषानुभव इति नाभ्युपगम्यते, किन्तु तद्विषयज्ञानोत्पत्तिः; तदा योगिनां परकीयं सुखादि गृह्णतां तदनुभविनामिव तुल्यातुरावस्था स्यात्। भित्रसन्तानवर्त्तित्वान तुल्यावस्थेति न वक्तव्यम्; न हि स्वसन्तानवर्त्तित्वं तेषामनुभवोऽभ्युपगतः३, किं तर्हि ? तद्विषयज्ञानोत्पत्तिः । सा च परसन्तानग्राहिणामप्यस्तीति समानः प्रसङ्गः।
अथोभयमनुभवे सुखादीनां कारणमङ्गीक्रियते ? तदा स्वसन्तानवर्त्तित्वेनानुभवे सिद्धं सुखादीनामात्मसंवेदनम्। एवं हि स्वसन्तानवर्त्तित्वं निमित्तं परसत्तानवर्तिभ्यश्च विशेषकं भवति, यदि स्वसंविद्रूपा भवन्ति । तेषां तर्हि न योगिनः सिद्धा मीमांसकादीनाम्, तेषां कथं तैः प्रसङ्गः? इत्याह-परेत्यादि। न हि बौद्धानामिव परेषां निर्विषयं परमार्थतोऽनुमानम्, ततश्च परदुःखानुमाने तुल्योऽनुभवोऽनुमातुरपि स्यात् ।। १३३१-१३३८॥
सुखादीत्येव गम्यन्ते सुखदुःखादयो न तु।
ज्ञानमित्येव गम्यन्ते तन्न ज्ञानं घटादिवत्॥१३३९॥ [G.398] शङ्करंस्वामी प्राह - न ज्ञानस्वभावाः सुखादयः, ज्ञानमित्यव्यपदेश्यत्वात्, घटादिवदिति ॥ १३३९॥ . .. यद्येवमित्यादिना दूषणमाह- .
यद्येवम्, समयान्यत्वे ज्ञानमित्यपि नो गतिः।
चेतस्यस्ति ततः प्राप्ता तत्राप्यज्ञानता तदा ॥१३४०॥ यदि सङ्केतान्यत्वेन स्वभावान्यत्वं स्यात्, एवं सति यदा ज्ञानेऽपि कश्चिदज्ञानमिति : मयं कुर्यात्, तदा ज्ञानमित्यपि चेतसि व्यपदेशो नास्तीति प्राप्ता ज्ञानेऽप्यज्ञानता भवतः ।। २४० ॥
व्यक्तं प्रकाशरूपत्वानो चेदेवं प्रसज्यते। सुखदुःखादिके तुल्यं ननु' सर्वमिदं न किम्॥१३४१ ।। भूतार्थभावनोद्भूतं कल्पनाभ्रान्तिवर्जितम्।
वक्ष्यामो योगिविज्ञानं साधनैर्विमलैरलम्॥१३४२॥ १.० परितापिरूपेण-पा०, गा०। २. पा०, गा० पुस्तकयोनास्ति। ३. ०मनगमोऽभ्य०-पा०, गा०। ४-४. ०स्वाम्याह-पा०, गा०/ ५. तच्च-पा०, गा०।