________________
३३८
तत्त्वसंग्रहे यो न्यायइति।अशक्यसमयत्वादिः । मानसस्य यद्यपि नोक्तो न्यायः, तथापि [G.396] य इन्द्रियज्ञाने न्यायः-अशक्यसमयत्वम्, स तस्यापि तुल्य एव। यद्वा-योगिज्ञानमिह मानसम्, तच्च वक्ष्यमाणम् सिद्धान्तप्रसिद्धत्वान्मानसस्यात्र न लक्षणं कृतम्। प्रमाणेनाबाधितत्वमा चार्येणैव प्रतिपादितमिति न प्रतिपाद्यत इति भावः ॥ १३२९ ॥ अवेदका इत्यादिना वैशेषिकमतमाशङ्कते
अवेदकाः परस्यापि स्वविद्भाजः कथं न ते।
एकार्थाश्रितविज्ञानवेद्यास्त्वेते भवन्ति चेत् ॥१३३०॥ न केवलं स्वसंवेदना न भवन्ति, बाह्यस्याप्यर्थस्यावेदकाः। न ज्ञानस्वभावा इति यावत्। एकस्मिन्नात्मनि समवेतेन तु ज्ञानेन वेद्यन्त इति तेषां सिद्धान्तः ॥ १३३० ॥ नैरन्तत्यादिना प्रतिविधत्ते
नैरन्तर्यप्रवृत्ते हि बाह्यवस्तूपलम्भने। . सुखादि वेद्यते कस्मात् तस्मिन् काले निरन्तरम् ॥ १३३१॥ मानसेनैव तद्वेद्यमिष्यते चेतसा न च । तत्काले तस्य सद्भावः क्रमजन्मोपवर्णनात् ॥१३३२॥ जन्मैव यौगपद्येन नेष्यते न पुनः स्थितिः। इति चेन्न स्थितिस्तस्य क्षणभङ्गप्रसाधनात् ॥१३३३॥ आशुवृत्तेः सकृद् भ्रान्तिरिति चेत् साऽप्यपाकृता। विस्पष्टप्रतिभासो हि न स्यात् स्मरणगोचरे ॥१३३४॥ शाताशातादिरूपा च सा भ्रान्तिर्यदि कल्प्यते। तदा प्राप्ता सुखादीनां सत्ता तन्मात्रलक्षणा ॥१३३५॥ यदा च योगिनोऽन्येषामध्यक्षेण सुखादिकम्। विदन्ति तुल्यानुभवात् तद्वत्तेऽपि स्युरातुराः ॥१३३६॥ स्वस्मिन्नपि दुःखस्य सत्तैवानुभवो न ते। किन्तु तद्विषयं ज्ञानं तच्चास्ति परंसन्ततौ॥१३३७॥
परदुःखानुमाने च तुल्यमेतत् तथा हि तत्। ___एकदुःखादि विषयं वर्ण्यते न त्वगोचरम् ॥१३३८॥
अनेन प्रतिज्ञायाः प्रत्यक्षविरुद्धतामाह। यतो बाह्यवस्त्ववलम्बनज्ञानसमकाल सुखादयोऽनुभूयन्ते; तदा कतमेनैकार्थाश्रयिणा ज्ञानेन वेद्येरन् ? न तावत् तेनैव बाह्यालम्बनेन [G.397] चक्षुरादिज्ञानेन, तस्य बाह्यलम्बनत्वात्, अन्तःसंवेद्यमानत्वाच्च सुखादीनां मानसेनैव
चेतसा वेद्यत्वेनेष्टत्वात्। न च तस्मिन् काले मानसस्य चेतसः सम्भवः, क्रमेणैव ज्ञानान्युत्पद्यन्त इत्यभ्युपगम्यते । अथापि स्यात्-जन्मैव ज्ञानानां क्रमेणाभ्युपगतम्, न स्थितिरिति? एतच्चासम्यक्; सर्वजन्मिनां क्षणिकत्वस्य प्रसाधितत्वात् । आशुवृत्त्या सकृद्धान्तिरपि या, साऽपास्तैव पूर्वम्। १.यद्वेद्य०-गा।
२-२. अनुमानं सविषयं-गा.......विषयं- पाह।
३. यदा-पा०, गा०।