________________
प्रत्यक्षलक्षणपरीक्षा
३३७ इत्यादिना प्रत्यक्षाभासनिर्देशादविसंवादि कल्पनापोढमित्येवंविधमिष्टमाचार्यस्य लक्षणम्। सतैमिरमिति तु तिमिरशब्दोऽयमज्ञानपर्यायः । “तिमिरनं च मन्दानाम्" इति यथा। तिमिरे एव तैमिरम्, विसंवादकमित्यर्थः ॥ १३२३ ॥ तन्नेत्यादिना प्रतिविधत्ते
तनाध्यवसिताकारप्रतिरूपा न विद्यते। तत्राप्यर्थक्रियावाप्तिरन्यथाऽतिप्रसज्यते ॥१३२४॥ केशादिप्रतिभासे च ज्ञाने संवादभावतः ।।
आलोकादेरतस्तस्य दुर्निवारा प्रमाणता ॥१३२५॥ [G.395] प्रामाण्यं हि भवद्वाभ्यामाकाराभ्यां भवति-यथाप्रतिभासमविसंवादाद, यथाध्यवसायं वा। तत्रेह न यथाप्रतिभासमविसंवादः; पीतस्य प्रतिभासनात् तस्य तथाभूतस्याप्राप्तेः । नापि; यथाध्यवसायमविसंवादः पीतस्यैव विशिष्टार्थक्रियाकारित्वेनाध्यवसायात्, न च तद्रूपार्थक्रियाप्रासिरस्ति। न चानध्यवसितार्थाविसंवादेनापि प्रामाण्यम्; अतिप्रसङ्गात्। केशादिज्ञानेऽपि ह्यनध्यवसिताऽऽलोकादिप्राप्तेः ॥ १३२४-१३२५ ॥
अथ मन्यसे-यद्यपि वर्णोऽध्यवसितो न प्राप्यते, संस्थानं तु प्राप्यत एव? इत्यत आह
न वर्णव्यतिरिक्तं च संस्थानमुपपद्यते।
भासमानस्य वर्णस्य न च संवाद ईक्ष्यते ॥१३२६॥ सुबोधम् ॥ १३२६ ॥ .. . यद्याकारमित्यादिनोपचयमाह- . .
यद्याकारमनादृत्य प्रामाण्यं च प्रकल्प्यते। __अर्थक्रियाऽविसंवादात् तद्रूपो ह्यर्थनिश्चयः ॥१३२७॥
इत्यादि गदितं सर्वं कथं न व्याहतं भवेत्।
वासनापाकहेतूत्थस्तस्मात् संवादसम्भवः ॥१३२८॥ नैव ह्यर्थक्रियाऽविसंवादित्वमात्रेणाकारमनपेक्ष्य प्रामाण्यं कल्पनीयम्; विषयाकारस्याप्रामाण्यप्रसङ्गात् । तद्रूप इति ज्ञानस्याभासरूपः। आदिशब्देन "यथा यथा ह्यर्थस्याकारः शुभ्रादित्वेन सन्निविशते तद्रूपः स विषयः प्रमीयते" ( ) इत्यादिकमा चार्टीयं वचनं विरुध्यत इति दर्शयति । अर्थक्रियासंवादस्तु पूर्वार्थानुभववासनापरिपाकादेव प्रमाणान्तराद् भवतीत्यवसेयम्। पीतशङ्खज्ञानस्य वासनापरिपाकहेतुः शुक्ल एव शङ्खः; तदाधिपत्येन तत्परिपाकात्। वासनापरिपाकहेतुतः समुत्थानं यस्याविसंवादस्य स तथोक्तः ।। १३२७१३२८॥ सुखादीनां कथं संवेदनप्रत्यक्षता? इत्याह
मानसेन्द्रियविज्ञाननिर्विकल्पत्वसाधने ।
यो न्यायः स सुखादीनामविकल्पत्वसाधकः ॥१३२९॥ १.संवादिभावत:- पा०, गा०। २. यथाभूत०-गा।
३. इष्यते-पा०, गा०।