________________
३३६
तत्त्वसंग्रहे
हेतुः, तदाऽनैकान्तिकता; स्मृतिबुद्धौ विपक्षभूतायामपि तद्भावभावित्वस्य 'समन्वयात् विद्यमानत्वात् । यच्च तद्विकारिविकारित्वम्; तदपि साक्षादसिद्धम् । पारम्पर्येणाप्युपादीयमानमनैकान्तिकमेव; यतोऽश्वायां गर्दभेन जातस्य वेगसरस्य कलकाद्यवस्थाव्यवधानेऽपि गर्दभरूपानुकारेण तद्विकारित्वस्य पश्चाद् दर्शनाद्, अतो नास्मात् साक्षादुत्पत्तिः सिध्यति । 'मानसी च भ्रान्तिर्विचारान्निवर्तते' इत्यत्राप्यनैकान्तिकत्वं भावसामान्यबुद्धिभिः । न हि भवतां युक्त्या सामान्याभावमवगच्छतामपि भावेषु घटादिषु - भाव इति वा, सामान्यमिति वा सामान्याकारो विकल्पो निवर्त्तते । अथ मन्यसे - निवर्त्तन्त एव युक्त्या विचारयतः सामान्यबुद्धयः' स्वलक्षणे नैताः प्रवर्त्तन्ते' इत्यनेनाकारेणेति ? तदैतदप्यनुत्तरम्; चन्द्रद्वयादिबुद्धयोऽपि युक्त्या विचारयतः 'स्वलक्षणे नैताः प्रवर्त्तन्ते' इत्यनेनाकारेण निवर्त्तन्त एव । न च तावता मानस्यो भवन्ति । सत्ता तासां न निवर्त्तत इति चेत् ? तत् तुल्यं सामान्यबुद्धिभिः । न हि तासामपि स्वभावो निवर्त्तते ॥ १३१४-१३१९॥ तद्भावभावितेत्यादिना प्रतिविधत्ते
तद्भावभाविता साक्षात्र सिद्धाऽभ्रान्तचेतसा ।
व्यवधानं न सिद्धं हि न हि तद्वेद्यतेऽन्तरा ॥ १३२० ॥ अन्यार्थाशक्तचित्तोऽपि द्विचन्द्रादि समीक्षते ।
अविच्छिन्नमतो नास्ति पारम्पर्यसमुद्भवः ॥ १३२१ ॥ भावसामान्यबुद्धीनां प्रतिसंहारसम्भवे ।
निवृत्तिः सम्भवत्येव स्वेच्छयेशमतेरपि ॥ १३२२ ॥ [G.394] नासिद्धा, अपि तु सिद्धैव; कस्मात् ? अभ्रान्तेनैकचन्द्रचेतसा व्यवधानासिद्धेः । तस्योपलभ्यस्यान्तरालेऽनुपलभ्यमानत्वात्।
एतदेवान्यार्थेत्यादिना स्पष्टीकुरुते । अविच्छिन्नं द्विचन्द्रादीति सम्बन्धनीयम् । अत एव तद्विकारविकारित्वस्याप्यव्यभिचारः । न हि तदपि व्यवहितम्, येन वेगसरादिभिर्व्यभिचारः स्यात् । भावसामान्यबुद्धीनामपि यदेच्छया संहारं कुरुते, तदा निवृत्तिरस्त्येव । न तु केशोण्ड्रकादीनां संहारः सम्भवतीति नानैकान्तिकता । इन्द्रियज्ञानस्यापि चक्षुषीच्छया निमीलिते निवृत्तिरिच्छावशात् सम्भवतीति चेत् ? न हि समनन्तरमिच्छानिवृत्तौ निवर्त्तते चक्षुर्विज्ञानम्, किं तर्हि ? चक्षुर्निमीलनं तावदिच्छावशाद् भवति, ततो निवृत्ते चक्षुषि तज्ज्ञानं निवर्त्तते, मानसी तु भ्रान्तिः साक्षादिच्छावशान्निवर्त्तत इति न समानम् । इत्थं चैतदवसेयंम् – यतः प्रणिहिते चक्षुष द्रष्टुमनिष्यमाणोऽप्यर्थो दृश्यत एव, अतो नेच्छायाश्चक्षुरादिज्ञाने साक्षात् सामर्थ्यम् ॥ पीतशङ्खादिबुद्धीनां विभ्रमेऽपि प्रमाणता' ।
अर्थक्रियाऽविसंवादादपरे सम्प्रचक्षते ॥ १३२३ ॥
केचित्तु स्वयूथ्या एवाभ्रान्तग्रहणं नेच्छन्ति, भ्रान्तस्यापि पीतशङ्खादिज्ञानस्य प्रत्यक्षत्वात् । तथा हि-न तदनुमानम्; अलिङ्गजत्वात् । प्रमाणं च; अविसंवादित्वात् । अत एवाचार्यदिङ्नागेन लक्षणे न कृतमभ्रान्तग्रहणम् । " भ्रान्तिः संवृत्तिः सा ज्ञानमनुमानम्" ( ) १. समन्धयाद् - पा०; पारम्पर्यात् गा० । २ प्रमाणताम्- पा०, गा० । ३. आचार्यदिङ्नागादय इत्यर्थः '