________________
प्रत्यक्षलक्षणपरीक्षा
३३५ हि योगाचारमतेनालम्बनासिद्धरुभयनयसमाश्रयेणेष्टस्य प्रत्यक्षलक्षणस्याव्यापिता स्यात्। अविसंवादित्वं चाभिमतार्थक्रियासमर्थार्थप्रापणशक्तिः, न तु प्रापणमेव; प्रतिबन्धादिसम्भवात्।
यद्येवम्, अभ्रान्तग्रहणमेवास्तु, किं कल्पनापोढग्रहणेनेति? न; अनुमानविकल्पस्यापि प्रत्यक्षत्वप्रसङ्गात् ॥१३११॥
मानसं तदपीत्येके नैतदिन्द्रियभावतः।
भावात् तद्विकृतावस्य विकृतेश्चोपलम्भतः ॥१३१२॥ मानसं तदपीत्येक इति। न तदर्थमभ्रान्तग्रहणं युक्तं कर्तुमिति तेषामभिप्रायः ।
ननु च भवतु नाम मानसम्, तथाप्यभ्रान्तग्रहणं कर्त्तव्यमेव, न ह्यनेनेन्द्रियज्ञानस्यैव प्रत्यक्षलक्षणं कर्तुमारब्धम्, किं तर्हि ? मानसस्यापि योगिज्ञानादेः, तत्र च स्वप्नान्तिकस्यापि निर्विकल्पकत्वमस्ति; स्पष्टप्रतिभासित्वात्, न त्वभ्रान्तत्वमिति तन्निवृत्त्यर्थमभ्रान्तग्रहणं युक्तमेव? सत्यमेतत्; किन्त्विन्द्रियभ्रान्तिवरपि सम्भवति, अतोऽयमयुक्त एषां पक्ष इतीन्द्रियजत्वप्रतिपादनायाह-नैतदित्यादि। इन्द्रियभावे सति भावादिन्द्रियविकारे चोपघातलक्षणे विकारस्योपहतिलक्षणस्योपलम्भात् तदन्येन्द्रियबुद्धिवदिन्द्रियजेयं केशोण्ड्रकादिबुद्धिः । किञ्च-यदि मनोभ्रान्तिः स्यात्, ततो मनोभ्रान्तेरेव कारणानिवर्तेतानिवृत्तेऽप्यक्षविप्लवे॥
सर्पादिभ्रान्तिवच्चेदमनक्षेऽप्यक्षविप्लवे।
निवर्तेत मनोभ्रान्तेः स्पष्टं च प्रतिभासनात्॥१३१३॥ सर्पादिभ्रान्तिवदिति दृष्टान्तः । स्पष्टप्रतिभासा च न प्राप्नोतीत्ययमपरः प्रसङ्गः। न हि विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता; सामान्योल्लेखनैव तस्य प्रवृत्तेः ॥ १३१२-१३१३ ॥
तद्भावेत्यादिना परकीयं दूषणमाशङ्कते- . .: तद्भावभाविता साक्षादसिद्धा व्यभिचारिणी।
पारम्पर्येण सा तस्यां स्मृतिबुद्धौ समन्वयात् ॥१३१४॥ तद्विकारविकारित्वं पारम्पर्योद्भवेष्वपि। कार्येषु दृश्यते लोके व्यक्तं वेगसरादिषु ॥१३१५॥ मानस्यो भ्रान्तयः सर्वा निवर्तन्ते विचारतः।
इत्यस्मिन् व्यभिचारित्वं भावसामान्यबुद्धिभिः॥१३१६॥ . वस्तुस्वलक्षणे नैताः प्रवर्तन्ते स्वभावतः। . एवं तद्विनिवृत्तिश्चेत् तुल्यं चन्द्रद्वयादिषु ॥१३१७॥ —न सत्ताविनिवृत्तिश्चेत् समं सामान्यबुद्धिभिः। न चेश्वरादिभ्रान्तीनां तन्मताभिनिवेशिनाम् ॥ १३१८॥ युक्तिकोटिश्रवेऽप्यस्ति निवृत्तिः प्रत्युत स्वयम्।
नैता युक्तय इत्येवं ते वदन्ति जडाः पुनः ॥ १३१९ ॥ [G.393] अत्र यदि साक्षात्तद्भाभावित्वं हेतुः, तदाऽन्यतरासिद्धता हेतोः। न हि परस्य साक्षादिन्द्रियादुत्पत्तिर्धान्तेः सिद्धा; तस्या एव साध्यत्वात्। अथ सामान्येन तद्भावभावित्वं ९.०शक्तिकत्वम्-पा०, गा० ।