________________
३३४
तत्त्वसंग्रहे किं पुन: कारणम्-सर्वतो भिन्ने वस्तुरूपे अनुभवोत्पत्तावपि तथैव न स्मार्तो निश्चयो भवति? उच्यते; कारणान्तरापेक्षत्वात् । न ह्यनुभूत इत्येव निश्चयो भवति; तस्याभ्यासार्थित्वपाटवादिकारणान्तरापेक्षत्वात्। यथा जनकाध्यापकाविशेषेऽपि पितरमायान्तं दृष्ट्वा 'पिता मे आगच्छति, नोपाध्यायः' इति निश्चिनोति ॥ १३०५ ॥ [G.391] अत्र भाविविक्तादय विकल्पोत्पादद्वारेणापि व्यवहाराङ्गत्वं विघटयन्तो यत् प्रमाणयन्ति, तदर्शयति
नाविकल्पं विकल्पे 'चेच्छक्तं विषयभेदतः।
अकल्पत्वाच्च रूपादिज्ञानवच्चक्षुरादिवत् ॥१३०६॥ नेन्द्रियविज्ञानं सविकल्पकमनोविज्ञानकारणम; भिन्नविषयत्वात्, रूपस्पर्शादिज्ञानवत्, निर्विकल्पकत्वाच्च, चक्षुरादिवदिति। विषयभेदत इत्यत्र हेतौ दृष्टान्तो रूपादिज्ञानवदिति। अकल्पत्वादित्यत्र तु चक्षुरादिवदिति ॥ १३०६ ॥ तदत्यादिना दूषणमाह
तदत्र न विरोधोऽस्ति विकल्पेन सहानयोः ।
न चापि विषयो भिन्नस्तदर्थाध्यवसायतः ॥१३०७॥ उभयोरपि हेत्वोरनैकान्तिकता; साध्यविपर्ययेण सह हेत्वोर्विरोधानुपदर्शनात्। अनयोरिति। हेत्वोः। न चापि विषयो भिन्न इत्यनेन सत्यपि विकल्पस्य 'विषयभेदतः' इत्यस्य हेतोरसिद्धतामाह ॥ १३०७॥ परमार्थतस्तु निर्विषयो विकल्पः, तदापि सुतरामसिद्धतेति दर्शयन्नाह
वस्तुतस्तु निरालम्बो विकल्पः सम्प्रवर्तते। तस्यास्ति विषयो नैव यो विभिद्येत कश्चन ॥१३०९॥ रूपशब्दादिबुद्धीनामस्त्येवान्योन्यहेतुता ।
ततोऽप्रसिद्धसाध्योऽयं दृष्टान्तः समुदीरितः ॥१३०९॥ . . रूपशब्दादीत्यादिना 'रूपादिज्ञानवत्' इत्यस्य दृष्टान्तस्य साध्यविकलतामाह । रूपशब्दादिज्ञानानां परस्परसमनन्तरप्रत्ययभावेन कारणत्वस्य विद्यमानत्वात्॥१३०८-१३०९ ॥ पुनरपि 'विषयभेदतः' इत्यस्य हेतोर्विपक्षे सद्भावोपदर्शनेनानैकान्तिकतामाह
अग्निधूमादिबुद्धीनां कार्यकारणभावतः।
व्यभिचारोऽपि विस्पष्टमेतस्मिन्नुपलभ्यते ॥१३१०॥ एतस्मिन्निति ‘विषयभेदतः' इत्यत्र हेतौ। यथाग्न्यादिलिङ्गिबुद्धेधूमादिलिङ्गबुद्धिविषयभेदेऽपि कारणम्, तथात्रापि भविष्यतीति हेतोरनैकान्तिकत्वम् ॥ १३१० ॥ [G.392] एवं कल्पनापोढत्वं प्रत्यक्षस्य प्रसाध्याभ्रान्तग्रहणे प्रयोजनमाह
केशोण्ड्रकादिविज्ञाननिवृत्त्यर्थमिदं कृतम्।
अभ्रान्तग्रहणं तद्धि भ्रान्तत्वान्नेष्यते प्रमा ॥१३११॥ अभ्रान्तमत्राविसंवादित्वेन द्रष्टव्यम्, न तु यथाऽवस्थितालम्बनाकारतया। अन्यथा
२. अविकल्पकत्वा०- जै०।
१.च शक्तं-गा।