________________
प्रत्यक्षलक्षणपरीक्षा
३३३ नापि द्वितीयः पक्षः; भेदाद्भेदेनाप्रतिभासनात्। भेददिति व्यक्तेः । न चाप्रतिभासमानं प्रत्यक्षीभवति । यथोक्तम्
"व्यक्तयो नानुयन्त्यन्यदनुयायि न भासते। ___ ज्ञानादव्यतिरिक्तं वा' कथमर्थान्तरं व्रजेत्"॥
__ (प्र० वा०३. ७०) इति। नापि तृतीयः पक्षः; अन्योन्यपरिहारेण स्थितेरन्यत्वतत्त्वयोःपक्षयोः । यौ हि परस्परपरिहारेण स्थितलक्षणौ, तयोर्य एकः प्रतिषेधः सोऽपरविधिनान्तरीयकः। परस्पर-परिहारेण वाऽन्यत्वतत्त्वे व्यवस्थिते; अन्यतरस्वभावव्यवच्छेदेनान्यतरस्य परिच्छेदात्। तस्मा-नास्ति तृतीयराशिसम्बन्धः ॥ १३०३-१३०४॥
ननु च यद्यविकल्पं प्रत्यक्षम्, कथं तेन व्यवहारः, तथा हि-'इदं सुखसाधनम्,' 'इदं [G.390] दुःखस्य' इति यदि निश्चिनोति, तदा तयोः प्राप्तिपरिहाराय प्रवर्तते। किञ्चअनुमानानुमेयव्यवहाराभावश्च प्राप्नोति। तथा हि-अनुमानकालेऽवश्यं धर्मी धर्मो वा प्रमाणान्तरेण निश्चितो ग्रहीतव्यः, स च न प्रत्यक्षेणानिश्चयात्मकेन निश्चितो ग्रहीतुं शक्यते। नाप्यनुमानेन; अनवस्थादोषात्। न चान्यत् प्रमाणान्तरमस्तीति सर्वव्यवहारोच्छेदः प्राप्नोति। तस्मादनुमानादिव्यवहारप्रवृत्तितो लिङ्गादनुमानबाधितेयमविकल्पकपतिज्ञा?-इति यश्चोदयेत्, तं प्रत्याह
. अविकल्पमपि ज्ञानं विकल्पोत्पत्तिशक्तिमत्। .
निःशेषव्यवहाराङ्गं तदद्वारेण भवत्यतः ॥१३०५॥ तद्वारेणेति। विकल्पद्वारेणाविकल्पकमपि निश्चयहेतुत्वेन सकलव्यवहाराङ्गं भवति। तथा हि-प्रत्यक्षं कल्पनापोढमपि सजातीयक्जिातीयव्यावृत्तमनलादिकमर्थं तदाकारनिआँसोत्पत्तितः परिच्छिन्ददुत्पद्यते। तच्च नियतरूपव्यवस्थितवस्तुग्राहित्वाद्विजातीव्यावृत्तवस्त्वाकारानुगतत्वाच्च तत्रैव वस्तुनि विधिप्रतिषेधावाविर्भावयति–'अनलोऽयम, नासौ कुसुमस्तबकादिः' इति । तयोश्च विकल्पयोः पारम्पर्येण वस्तुनि प्रतिबन्धाद् विसंवादित्वेऽपि न प्रामाण्यमिष्टम्; दृश्यविकल्पयोरेकत्वाध्यवसायेन प्रवृत्तेरनधिगतवस्तुरूपाधिगमाभावात्।
अत एव विकल्पद्वयहेतुत्वात् तृतीयप्रकाराभावसूचनायापि निमित्ततां प्रतिपद्यते। तथा हि-यद्यत्र क्वचिद् प्रवृत्तं तत्प्रतिभासित्वात् तत् परिच्छिनत्ति, तदन्यस्य तत्रानुपलम्भात् ततस्तद्व्यवच्छिनत्ति । सर्वभावानां च दृश्यतदन्यत्वेन द्वैराश्ये व्यवस्थापनात् प्रकारान्तराभावं च सूचयति। यद्येवम्-प्रत्यक्षेणैव शब्दादौ धर्मिणि गृहीतत्वादनित्यत्वादेः तंत्रानुमानविकल्प: प्रवर्त्तमानः प्रमाणं न प्राप्नोति? नैष दोषः; प्रत्यक्षमुत्पन्नमपि यत्रांशेऽध्यवसायं जनयति स एवांशो व्यवहारयोग्यो गृहीत इत्यभिधीयते । यत्र तु भ्रान्तिनिमित्तवशात् समारोपप्रवृत्तेर्न व्यवसायं जनयितुमीशम्, स व्यवहारायोग्यत्वाद् गृहीतोऽप्यगृहीतप्रख्य इति तत्रानुमानस्य प्रवृत्तसमारोपव्यवच्छेदाय प्रवर्त्तमानस्य प्रामाण्यं भवति, न पुनः प्रत्यक्षानन्तरभाविविकल्पस्य; तस्य प्रवृत्तसमारोपव्यवच्छेदाभावात्।। १. च-पा०, गा०। २. विकल्पकमपि-जै०। ३-३.०बन्धादसंवादि०-पा०,गा०। ४. तत्तत्प्रति०-पा०,गा० ।