________________
३३२
तत्त्वसंग्रहे नैव चेनिश्चितं वस्तु निश्चयस्तूत्तरोत्तरः ॥१२९८॥ समारोपे व्यवच्छेदविषयाद्धि यथाऽनुमा।
समारोपव्यवच्छेदविषयो निश्चयस्तथा ॥१२९९॥ तथा हि-प्रथमं सम्मुग्धरूपेणालोचनाज्ञानेनाधिगतम्, न हि निश्चितरूपेण; उत्तरोत्तरस्तु निश्चयः प्रमाणम्, समारोपव्यवच्छेदविषयत्वादनुमानवत्। यथा प्रत्यक्षेणगृहीते शब्दादौ धर्मिणि कृतकत्वादिनाऽनित्यत्वनिश्चयो भवन् प्रमाणं भवति, तथा समारोपव्यवच्छेदविषयो निश्चयो भविष्यति। तथा हि भवतामत्राविवादः-समारोपव्यवच्छेदविषयो निश्चयइति । यथोक्तम्
"निश्चयारोपमनसोर्बाध्यबाधकभावतः।
समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते" (प्र० वा० ३.४८) इति ॥ १२९९ ॥ नेत्यादिना प्रतिविधत्ते
न समारोपविच्छेदविषयत्वेन मानता। . ' अनुमायाः प्रमाणत्वप्रसङ्गेन स्मृतेरपि ॥१३००॥ प्रत्यक्षानन्तरोद्भूतसमारोपनिवारणात् ।'
इष्टं तु लैङ्गिकं ज्ञानं प्रमाणं न तदस्ति ते ॥१३०१॥ [G.389] प्रवृत्तसमारोपव्यवच्छेदेनानुमानस्य, प्रमाण्यम्, न तु पुनः समारोपविषयव्यवच्छेदमात्रेण; स्मृतेरपि प्रामाण्यप्रसङ्गात्। न च तत् प्रत्यक्षसमनन्तरभाविनो गौः शुक्लश्चलतीत्यादेर्विकल्पस्य प्रवृत्तसमारोपनिवारणमस्ति; अन्तरा समारोंपस्यानुत्पन्नत्वात् ।।१३००-१॥ कथमनुत्पन्नत्वमिति चेद्? आह
गौः शक्लश्चलतीत्यादौ प्रत्यक्षानन्तरं न हि।
समारोपोऽत्र विज्ञाने वेद्यते यनिषेध्यते ॥१३०२॥ गौरित्यादि। न हि विकल्पोऽसंविदित उत्पद्यत इत्युपलब्धिलक्षणप्राप्तस्यानुपलब्ध्या सिद्धमनुत्पन्नत्वं समारोपस्य ॥ १३०२॥
एवं तावदेतत् सर्वं जात्यादिकमभ्युपगम्योक्तम्, इदानी जात्यादयः परमार्थतो न सन्त्येव, कुतस्तद्विषयतया प्रत्यक्षस्य सविकल्पता भविष्यतीति दर्शयन्नाह--
तत्त्वान्यत्वोभयात्मानः सन्ति जात्यादयो न च। यद्विकल्पकविज्ञानं प्रत्यक्षत्वं प्रयास्यति ॥१३०३॥ अन्वयासत्त्वतो भेदाद् भेदेनाप्रतिभासनात्।
अन्योन्यपरिहारेण स्थितेश्चान्यत्वतत्त्वयोः ॥१३०४॥ व्यक्तिभ्यो हि जात्यादयः कदाचिदव्यतिरिक्ताः, व्यतिरिक्ता वा, व्यतिरिक्ताव्यतिरिक्तत्वेनोभयात्मानो वा।
न तावदाद्यः पक्षः; अन्वयासत्त्वत: अन्वयाभावात्। अनेकवस्त्वनुगतं हि रूपं सामान्यमुच्यते, न चैवं व्यक्तयः परस्परमन्वाविशन्ति, येन ता एव सामान्यं भवेयुः । अन्वावेशे वा विश्वमेकमेव रूपं जातमिति सामान्यस्यैवाभावप्रसङ्गः, अनेकाधारत्वात् तस्य। १-१.समारोपव्यवच्छेदविषयत्वाद-पा०, गा०। २.०समारोपणवारणात्-पा०, गा०। ३. यनिषिध्यते-पा०, गा० ।