SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ प्रत्यक्षलक्षणपरीक्षा स्वानुरूपां तदा बुद्धिं विशेष्ये जनयेत् कथम् ॥ १२९५ ॥ पर्यायेण भेदस्याप्यभ्युपगतत्वा देकान्तत इत्याह । तथा हि- भिन्नाभिन्नस्वभावा जात्यादयस्तस्येष्टा नेकान्ततो भिन्नाः, नाप्यभिन्नाः । तथा चाह"बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यते । एकानेकत्वमिष्टं वा सत्तारूपादिभेदतः ॥" ( श्वो० वा०, प्रत्य० सू० १५८) इति । पुनश्चोक्तम् ३३१ " स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि नः ॥ (श्लो० वा० प्रत्य० सू० १४१ ) इति । परत्वमिति अन्यत्वम्। स्वानुरूपामिति । विशेषणस्वरूपोपरक्ताम् । यतो विशेषणोपरक्तं विशेष्यं ग्राहयद् विशेषमुच्यते, अन्यथा 'विशेषणस्यानुपपन्नत्वादिति भावः । यथोक्तम्"स्वबुद्ध्या येन रज्येत विशेष्यं तद्विशेषणम्" ( ) इति ॥ १२९५ ॥ अथापि स्यात्–स्वसामान्नलक्षणविषयत्वेनोभयविषयत्वात् केवलस्वलक्षणमात्रविषयत्वमसिद्धमेवोत्तरेषां ज्ञानानाम् ? इत्याह स्वसामान्यात्मनोर्युक्तं' ज्ञानं चैकं न वेदकम् । सविकल्पान्यथाभावे प्राक्तनापरविन हि ॥ १२९६ ॥ स्वलक्षणसामान्यलक्षणयोर्नैकं ज्ञानं वेदकं युक्तम् । तथा हि-तदेकं ज्ञानं सविकल्पकं वा स्याद्, अविकल्पकं वा; तत्र सविकल्पकभावे - सविकल्पकत्वे सति, प्राक्तनस्य = 1 = पूर्वोक्तस्य स्वलक्षणस्य, वित्= वेदनम्, न प्राप्नोति । अन्यथाभाव इति । निर्विकल्पकपक्षे । अपरस्येति सामान्यात्मनः, वित्-वित्तिर्न स्यात् ॥ १२९६॥ = [G.388] एवं तावत् स्वलक्षणविषयत्व इतरेषां ज्ञानामविकल्पकता प्राप्नोतीति साधितम्, इदानीं भवतु नाम सविकल्पकत्वम्, तथापि गृहीतग्राहित्वान्न तेषां प्रामाण्यमेव युक्तमिति प्रतिपादयन्नाह - . एकान्तेनान्यताभावाज्जात्याद्याद्येन चेद् गतम् । .तिज्ञातार्थाधिगन्तृत्वात् स्मार्त्तज्ञानसमं परम् ॥ १२९७ ॥ तथा हि-जात्यादेर्व्यक्तितो नैवान्यत्वमेकान्तेनेष्टम् । यथोक्तम् - "स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि नः " ( श्लो० वा० प्र० सू० १४१ ) इति । ततश्चाद्येनैवालोचनाज्ञानेन जात्यादि गृहीतमिति स्मार्त्तज्ञानवदधिगतार्थाधिगन्तृत्वात् परं जात्यादिधर्मनिश्चयज्ञानमप्रमाणमेव युक्तमिति । प्रयोगः -- यद् गृहीतग्राहि ज्ञानं न तत्प्रमाणम्, यथा - स्मृतिः । गृहीतग्राही च प्रत्यक्षपृष्ठभावी विकल्प इति व्यापकविरुद्धोपलब्धिः ॥ १२९७ ॥ तदत्र यदि समारोपविषयव्यवच्छेदेन गृहीतमिति हेत्वर्थ:, तदा हेतोरसिद्धता, अथ यथाकथञ्चिद् गृहीतत्वादिति हेत्वर्थः, तदाऽनुमानेनानेकान्त इति दर्शयन्नाहसम्मुग्धानेकसामान्यरूपेणाधिगमे सति । २. स्वासामान्यां०- जै० / १. विशेषणत्वस्या०- गा० । ३. प्रामाण्यं पा०, गा० ।
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy