________________
३३०
तत्त्वसंग्रहे यथा गर्भगृहे आभासमात्रं गृहीत्वा पश्चाद्विशेषतो नीलमित्यादिना जानाति, एवं स्वरूपतः पूर्वं ज्ञात्वा पश्चाज्जात्यादिधर्मतः प्रत्यक्षवान् भविष्यतीत्यदोषः ॥ १२९० ॥
एवं तर्हि यद्यालोचनाज्ञानादूर्ध्वं पुनः पुनर्यावानधिगमस्तस्य प्रामाण्यम्, तदाऽऽलोचनाज्ञानेन यदि कश्चिदालोच्य पश्चादक्षिणी निमील्य जात्यादिधर्मतो विकल्पयति, तदास्यापूर्वाधिगमोऽस्तीति तस्यापि प्रत्यक्षता स्यात् ? इत्याह
यदि त्वालोच्य सम्मील्य नेत्रे कश्चिद्विकल्पयेत्। न स्यात् प्रत्यक्षता तस्य सम्बन्धाननुसारतः ॥१२९१॥
(भो० वा०, प्र० सू० ११२-११३, १२०, १२५-१२७) __ आलोयेति सम्बन्धः । सम्बन्धाननुसारत इति। अक्षसम्बन्धद्वारेणानुत्पत्तेः । यथोक्तं तेनैव कुमारिलेन
___ "एवं समानेऽपि विकल्पमात्रे यत्राक्षसम्बन्धफलानुसारः। प्रत्यक्षता तस्य तथा च लोके विनाप्यदो लक्षणतः प्रसिद्धम् ॥"
(शो० वा०, प्रत्य० सू० २५४) इति ॥ १२९१ ॥ तदित्यादिना प्रतिविधत्ते
तदयुक्तं यदि ज्ञानं. तत् प्रवृत्तं स्वलक्षणे। .... अनाविष्टाभिलापं तज्जात्यादिग्रहणेऽपि हि ॥१२९२॥ तथा 'चावाच्यमेवेदं साधितं प्राक् स्वलक्षणम्।
तस्मिन् वृत्तं च विज्ञानं नियतं निर्विकल्पकम् ॥१२९३॥ जात्यादिग्रहणेऽपीत्यपिशब्दोऽभ्युपगमे । एकदा तावजात्यादीनां निरस्तत्वान्न सन्त्येव त इति कुतस्तद्ग्रहणे प्रामाण्यम्! सन्तु नाम, तथापि तद्ग्रहणे आलोचनाज्ञानदुत्तरकालभाविनां ज्ञानानां स्वलक्षणविषयत्वादविकल्पतैव, जात्यादीनां स्वलक्षणाद्वयतिरेकस्याभ्युपगतत्वादिति भावः । प्रयोगः-यत् स्वलक्षणग्राहि तदविकल्पकम्, [G.387] यथा-आलोचनाज्ञानम्। स्वलक्षणग्राहि चोत्तरप्रत्यक्षत्वेनामिमतं ज्ञानमिति स्वभावहेतुः । प्रसङ्गसाधनं चेदम्। न चानकान्तिकता हेतोः; यतोऽवाच्यमेवेदं स्वलक्षणमिति प्रागन्यापोहे प्रसाधितम् । नापि विरुद्धता; सपक्षे भावात् ।। १२९२-१२९३ ॥
स्यादेतत्-जातिमात्रविषयत्वादसिद्धो हेतुः? इत्याह__ जातिमात्रग्रहे तु स्यादेकान्तेन विभिन्नता।
विशेषणस्य नैतच्च परैरिष्टं यथोदितम् ॥१२९४॥ एकान्तेन विभिन्नता विशेषणस्येति। विशेष्यादिति शेषः । नैतच्च परैरिष्टमिति । एकान्तेन विशेषणविशेष्ययोर्विभिन्नत्वम्। कथं नेष्टम्? इत्याह- यथोदितमिति। तेनैवेति शेषः ॥ १२९४ ॥ किं तत् ? इत्याह
यदि ह्येकान्ततो भिन्नं विशेष्यात् स्याद्विशेषणम्। १. विकल्पमार्गे- इति तत्रस्थः पाठः।
२. वाच्यमे०-पा०
३. पारस्येति-जै०।