________________
३२९
प्रत्यक्षलक्षणपरीक्षा अस्ति ह्यालोचनाज्ञानमाद्यं चेनिर्विकल्पकम्।
बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥१२८५॥ [G.385) तथा हि-सर्वं प्रत्यक्षं पक्षीकृतम्, तत्र च सर्वत्र प्रत्यक्षाख्ये धर्मिणि सविकल्पकव्यवस्थितौ नास्ति च विशेषणविशिष्टार्थग्रहणं निमित्तमित्यस्य हेतोरसिद्धिः; आलोचनाज्ञानव्यतिरेकेणान्यत्र प्रत्यक्षे सामान्यादिविशेषणविशिष्टार्थग्रहणस्य विद्यमानत्वात्। अथालोचनाज्ञानमेव पक्षीकृत्य हेतुरभिधीयते, तदा सिद्धसाध्यतेति मन्यते 'परः। बालमूकादिविज्ञान सदृशमिति । बालविज्ञानसदृशम् मूकादिविज्ञानसदृशम्। आदिशब्देन सम्मूर्छितादिपरिग्रहः । अभिलापविशेषरहितत्वमात्रेण साम्यम् ॥ १२८५ ॥ शुद्धत्वं पुनर्वस्तुनः; सामान्यद्वयविविक्तत्वात् । तदेव द्वितीयेन श्लोकेन स्पष्टयति
न विशेषो न सामान्यं तदानीमनुभूयते।
तयोराधारभूता तु व्यक्तिरेवावसीयते ॥१२८६॥ . विशेष इति अवान्तरसामान्यं गोत्वादि। सामान्यमिति महासामान्यं वस्तुत्वादि। तयोराधारभूतेति । अनेन शुद्धं वस्तु दर्शितम् ॥१२८६॥ . ततः परमित्यादिना तामेव पक्षैकदेशासिद्धतां हेतोरभिव्यनक्ति
ततः परं पुनर्वस्तु धमॆर्जात्यादिभिर्यया। - बुद्ध्याऽवसीयते सापि प्रत्यक्षत्वेन सम्मता ॥१२८७॥
ततः परमिति शुद्धवस्तुग्रहणोत्तरकालम् । यया बुद्ध्या वस्तु व्यवसीयते जात्यादिभिर्विशेषणैः, सापि प्रत्यक्षत्वेन सम्मतेति योज्यम्। जात्यादिभिरित्यनेन विशेषणविशिष्टार्थग्रहणं दर्शयति । अनेन चानधिगतार्थाधिगन्तृत्वं हेतोश्चासिद्धतोक्ता भवति ॥ १२८७॥ . पुनः पुनर्विकल्पेऽपि यावानधिगमो भवेत्।
तत्सम्बन्धानुसारेण सर्वं प्रत्यक्षमिष्यते॥१२८८॥ पुनः पुनरिति तृतीयादौ क्षणे। यावानिति । अनधिगतार्थाधिगन्तेति शेषः। तत्सम्बन्धानुसारेणेति तस्याक्षस्य सम्बन्धानुसारेण ॥ १२८८ ॥ ____ स्यादेतत्-यदि प्रथमतोऽक्षव्यापारकाले सकलजात्यादिधर्मसमन्वितं वस्तु भासते, तत् तहत्तरकालमपि न भासेत; अविशेषात् ? इत्याह
· न हि प्रविष्टमात्राणामुष्णाद् गर्भगृहादिषु।
अर्था न प्रतिभान्तीति गम्यन्ते नेन्द्रियैः पुनः ॥१२८९॥ [G.386] उष्णादिति प्रभास्वरात्। प्रविष्टमात्राणामिति योज्यम्। गम्यन्ते नेन्द्रियैरति। अपि तु गम्यन्त एवेति काक्वा दर्शयति ॥ १२८९॥ एवं दृष्टान्तं प्रसाध्य दार्टान्तिके उपसंहरन्नाह
यथा त्वाभासमात्रेण पूर्व ज्ञात्वा स्वरूपतः। पश्चात् तत्र विबुद्ध्यन्ते तथा जात्यादिधर्मतः॥१२९०॥
... २. सम्मूर्छितपरि०- पा०, गा० । ३.० सद्धर्म- जै० पाठा० ।
१. मीमांसक इत्यर्थः।