________________
३२८
तत्त्वसंग्रहे शशविषाणादेर्निरुपाख्यात् तस्य विशिष्टत्वमस्त्येति विकल्पज्ञानग्राह्यं स्यात्, न च भवति, तस्मादनैकान्तिकत्वमेवेति दर्शयन्नाह
निरुपाख्याच्च सामान्यं विशिष्टं सम्प्रतीयते। अतो विकल्पकज्ञानग्राह्यं तदपि ते भवेत् ॥१२८१॥ नासतस्तद्विशिष्टं चेत् किमिदानीं तदात्मकम्।
नो चेत् तथापि वैशिष्ट्यं तस्मादस्य न किं मतम्॥१२८२॥ स्यादेतत्-सामान्यस्याभावतो न विशेषः सम्भवति, नापि सादृश्यम्। तथा हि [G.384] यन्न किञ्चत् सोऽभावः कल्प्यते, तच्च तादृशं सामान्यतो नैव विशिष्टम्, नापि समम्; भावत्वप्रसङ्गात्। तथा हि-यदि तच्छून्यं सामान्यतो विशिष्टं स्यात्, तदपि वस्त्वेव स्यात्। न ह्यवस्तुनो विशेषाख्यस्वभावः सम्भवति, न च विशेषाख्यं स्वभावमन्तरेण विशिष्टं शक्यं वक्तुम्, नापि समम्; वस्तुत्वप्रसङ्गात् । न ह्यवस्तुनः केनचित् समानं रूपं भवति, न च समानरूपमन्तरेण समं युक्तम्; अतिप्रसङ्गात्। तस्मात् सामान्यस्य शून्यमवधिं कृत्वा समत्वं विशिष्टत्वं वा युक्तम्। तथा हि-यो यमवधिं कृत्वा समो विशिष्टो वा भवति, तेन सोऽप्यवधिः समो विषमश्च दृश्यते। यदि हि सोऽवधिस्तेन समो विषमो वा न दृश्येत, इतरोऽप्यवधिमान् समो विषमो वा न दृश्येत ॥ १२८१-१२८२॥ .'
किञ्च–नाभावो नाम कश्चिद्भावव्यतिरिक्तोऽस्ति, भाव एव तु भावान्तरं न भवतीत्यभाव आख्यायते, तत्कुतोऽस्य वैशिष्ट्यमित्येतत्सर्वं सुमतिनोक्तमागूर्याऽऽह
अतदात्मकमेवेदं वैशिष्टयं वस्तुनोऽपि हि ।
नासद्रूपं च सामान्यं तद्विशिष्टं न ते कथम् ॥१२८३॥ वस्तुनोऽपि हि सकाशाद् यदवस्तुनो विशिष्टत्वं तत् खलु नान्यत् किञ्चित्, किं तर्हि ? तत्त्वनिषेधः, अतदात्मत्वमेव, लक्षणभेद इति यावत् । तच्चासतोऽपि शशविषाणादेः सकाशात् सामान्यस्य तुल्यमेव । तथा हि-असच्छशविषाणादि सर्वार्थक्रियाविरहलक्षणम्, सामान्यं तु न तथेष्टमिति विस्पष्टमस्य ततो वैशिष्ट्यम्। ततश्चासतोऽपि सकाशाद् वैशिष्ट्यं स्यात्, न च वस्तुत्वप्रसङ्गोऽसत इति यत्किञ्चिदेतत्।
___ यदुक्तम्-"नाभावो नामान्य एव" ( ) इत्यादि, तत्र तेन स्वाभाषितस्यैवार्थो न विवेचितः । तथा हि-'भाव एव तु भावान्तरं न भवति' इत्युक्ते भावान्तरात् तस्य विशेष उक्तो भवति, ततो व्यावृत्तिसंवर्णनात् । तदेतद्ध्यान्ध्यविजृम्भितमित्यलं प्रसङ्गेन ॥ १२८३ ॥
तस्मात् स्वलक्षणे ज्ञानं यत् किञ्चित् सम्प्रवर्त्तते।
वाक्पथातीतविषयं सर्वं तन्निर्विकल्पकम् ॥१२८४॥ तस्मादित्यादिना प्रमाणफलोपसंहारः ॥ १२८४ ॥
अस्ति ह्यालोचनाज्ञानमित्यादिना कौमारिलमतोपदर्शनेन 'यस्य यद्रूपव्यवस्थितौ निमित्तं नास्ति' इत्यादौ प्रयोगे हेतोः पक्षैकदेशासिद्धत्वमाशङ्कते१. विशेषं-पा०. गा०। २.तिसङ्कीर्तनात्-पा०, गा०।