________________
प्रत्यक्षलक्षणपरीक्षा
३२७
गृह्यमाणं सविकल्पकविज्ञानगोचरं स्यात्, किन्तु निर्विशेषं गृहीता भेदा एव सामान्यमित्युच्यन्ते । प्रतिनियतस्वरूपनिरपेक्षाः प्रतीयमानाः सामान्यशब्दाभिधेया इति यावत् । ततश्च कुतस्तस्माद्विशेषात् सामान्यस्य विशिष्टत्वम्, येन तद्ग्राहकस्य सविकल्पना भवेत् ॥ १२७५ ॥ कथं तर्हि सामान्यविशेषयोरसङ्कीर्णा व्यवस्था ? इत्याहवैषम्यसमभावेन ज्ञायमाना इमे किल ।
प्रकल्पयन्ति सामान्यविशेषस्थितिमात्मनि ॥ १२७६ ॥ एत एव हि भेदाः समविषयतया सम्प्रज्ञायमाना यथाक्रमं सामान्यविशेषाभिधानाभिधेयतामनुभूय सामान्यविशेषव्यवहारयोर्विषयभेदं प्रकल्पयन्ति ॥ १२७६ ॥ वैषम्यसमभावोऽयमित्यादिना प्रतिविधत्ते
वैषम्यसमभावोऽयं प्रविभक्तो यदीष्यते । सामान्यस्य विशिष्टत्वं तदवस्थं विशेषतः ॥ १२७७ ॥ अथाविभक्त एवायमसङ्कीर्णा स्थितिः कथम् ।
अन्योन्यपरिहारेण स्थितेर्गत्यन्तरं न च ॥ १२७८ ॥
प्रविभक्तइति अमिश्रः । अन्यदेव सामान्यम्, अन्य एव विशेष इति यावत् । [G.383] सामान्यस्य विशेषतो विशिष्टत्वमित्युपलक्षणम्। तथा विशेषस्यापि सामान्यतो विशिष्टत्वमेव; द्वयोरपि परस्परस्वभावविवेकेन प्रतिभक्तत्वात् । असङ्कीर्णा स्थितिरिति अमिश्रीभूता । यथोक्तं तैनैव सुमतिना - " सत्तादिसामान्यस्वभावानुविद्ध एव विशेषः साक्षात्क्रियते नान्यथा, ततो विकल्पविषयत्वमेव' विशेष्यस्य युक्तं रूपम् । सामान्यं पुनरशेषविशेषनिरपेक्षं साक्षात्कर्तुं शक्यत इत्यबिरुद्धमस्याविकल्पविषयत्वम् - इतीयभसङ्कीर्णा स्थितिर्न स्यात् । न प्रविभक्तो नाप्रविभक्त इष्यते ( ) इति चेदाह - अन्योन्येत्यादि । अन्योन्यपरिहारस्थितिलक्षणानामेकस्वभावनिषेधस्यापरबिधिनान्तरीयकत्वान्न राश्यन्तरमस्ति ॥ १२७७-१२७८ ॥
अपि च निर्विशेषं गृहीता भेदा इति परस्परव्याहतमिति दर्शयान्नाह— • विशेषात्मातिरेकेण नापरं भेदलक्षणम् ।
तद्रूपास्पर्शने तेषु ग्रहणं कथमुच्यते ॥ १२७९ ॥ तद्रूपस्पर्शने चापि भेदान्तरविभेदिनः ।
गृहीता इति विज्ञानं प्राप्तमेषु विकल्पकम् ॥ १२८० ॥
भेदेभ्यो हि नान्यो विशेषः, तस्य च विशेषस्य सामान्यग्राहिणा ज्ञानेनासंस्पर्शे कथं भेदास्तेन गृहीता भवेयुः, अगृहीतस्वभावाव्यतिरेकात्तेऽप्यगृहीता एवेति भावः । अथ गृहीता इति मतम् ? तदा तद्रूपसंस्पर्शने - भेदरूपसंस्पर्शने ग्रहणे, गृहीताव्यतिरेकाद् गृहीतस्वभाववद् विशेषोऽपि गृहीत एवेति, एषु = भेदेषु, यत् सामान्यविषयत्वेनाभिमतं ज्ञानं तद्विकल्पकं प्राप्तम्
॥ १२७९-१२८० ॥
किञ्च - मा भूत्राम सामान्यस्य विशेषाव्यतिरेकात् ततो विशिष्टत्वम्, तथापि
१. अन्योन्यापरि०- पा०, गा० ।
२. विशिष्टविष०- पा०, गा० ।