________________
३२६
तत्त्वसंग्रहे भेदो वैशिष्ट्यमुक्तं हि न विशेषणसङ्गतिः। भेदः सजातीयविजातीयेभ्यो व्यावृत्तिः; सा च नान्या व्यावृत्ताद् भावात्। भाव एट हि भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायां तथोच्यते।
__ स्यादेतत्-यदि विजातीयसजातीयेभ्यो वस्तुनो ग्रहणम्, नियमेन तर्हि सविकल्पकं ग्रहणं प्राप्तम्; भिन्नमेतद्' इत्येवमाकारप्रवृत्तत्वात्, अन्यथा कथं तद्विषयं स्याद्, यद्यन्याकारप्रवृत्तं भवेत्! न ह्यन्याकारप्रवृत्तं तद्विषयं युक्तम्; अतिप्रसङ्गात् ? इत्याशङ्क्याह
भिन्नमित्यपि तद्वाचा नानुविद्धं प्रतीयते ॥१२७१॥ कथं तर्हि भिन्नमित्यभिधीयते? इत्याह
स्वभावापरनिःशेषपदार्थव्यतिरेकिणि . । ...
गृहीते सति तस्मिस्तु विकल्पो जायते तथा ॥१२७२॥ स्वभावादपरे ये नि:शेषाः पदार्थास्तेभ्यो व्यतिरेकिणि व्यावृत्ते गृहीते सत्यसाधारणनीलाद्याकारप्रतिभासनात् पश्चाद् भेदाध्यवसायी शब्दाकारानुस्मृतो भिन्नमित्यभिलपन्नुत्पद्यते विकल्पः । न चेदस्त्वभिलापस्वभावं तत्संसृष्टात्मतत्त्वं वा, येन 'भिन्नम्' इति, 'अभिन्नम्' इति नाम्ना संयोज्यग्रहणे 'सत्यगृहीतं स्यात् । तस्मादसिद्ध एव हेतुः ॥ १२७२ ॥
अथ व्यावृत्तिवशाद्विशिष्ट इति कृत्वा 'विशिष्टविषयत्वात्' इति हेत्वर्थः, नार्थान्तरविशेषणसम्बन्धात्, तदाऽपि स्वतों नैकान्तिको हेतुरिति दर्शयन्नाह
विशेषणानवच्छिन्नं परैः सामान्यमिष्यते।
निर्विकल्पकविज्ञानग्राह्य तत्राप्यतः समम् ॥१२७३॥ द्विरूपं हि सामान्यम्, विशेषणावच्छिन्नरूपम्, अवच्छिन्नरूपं च। तत्र यदनवच्छिन्नरूपं तनिर्विकल्पकविज्ञानग्राह्यमिष्टम् । तत्रापि सामान्ये । अत एतद्विकल्पकविज्ञानग्राह्यत्वं तुल्यम् ॥ १२७३॥ . [G.382] कथम् ? इत्याह
विशेषाद्धि विशिष्टं तत् सामान्यमवगम्यते।
तद्ग्राहकमतः प्राप्तं विज्ञानं सविकल्पकम् ॥१२७४॥ यस्माद् विशेषाद् विशिष्टम् व्यावृत्तम्, तत् सामान्यं प्रतीयते; अन्यथा सामान्यमेव न स्यात्, ततो यदि न व्यावर्तेत । ततश्चास्यापि सामान्यस्य विशेषाद्व्यावृत्तस्य ग्राहकं विज्ञानं सविकल्पकं प्राप्नोति; विशिष्टविषयत्वात्। न च भवति त्वन्मतेन। तस्मात् स्वतोऽनैकान्त इति ॥१२७४॥
अत्र किल तेनैव सुमतिना स्वयमाशङ्कय सामान्येन हेतोरनैकान्तिकत्वं परिहृतम्, तदेवादर्शयति
निर्विशेषं गृहीतश्चेद् भेदः सामान्यमुच्यते।
ततो विशेषात् सामान्यविशिष्टत्वं न युज्यते ॥१२७५ ॥ न हि सामान्यं किञ्चिदस्ति विशेषेभ्यो व्यतिरिक्तस्वरूपम्, यत् स्वरूपेण विशिष्टं १. सति गहोतं-पा. गा।
३. यद्ध्यस्मात्-पा०, गा०।
२. अद-जें।