________________
प्रत्यक्षलक्षणपरीक्षा अथ पूर्वक: पक्षः, अत्राह
ग्राह्यान्तरध्यवच्छिन्नं भावेन ग्राहि चेन्मतम्।
सविकल्पविज्ञानं भवेद् वृक्षादिबोधवत्॥१२६७॥ [G.380] यदि परत्रासम्भविना स्वरूपेण विशिष्टार्थग्राहीन्द्रियज्ञानमभिप्रेतम्, तदा सविकल्पकं प्राप्नोति; केनचिद्रूपेण विशिष्टार्थग्राहित्वात्, वृक्षोऽयमित्यादिबोधवत् ॥ १२६७ ॥
__ स्यान्मतम्- "नार्थमात्र नाम किञ्चिदस्ति यत् स्वरूपेण विशिष्य गृह्यते, किं तर्हि ? यत्तद्विशिष्टं रूपं तव, मम विशेषाभिमतं तदेवास्ति, गृह्यते च" इति, अत आह
विशेषोऽस्पृष्टसामान्यो न च कश्चन विद्यते। अत्र मात्रं नाम सामान्यमुच्यते, यत्तत् सत्तेत्याख्यायते, तन्निरपेक्षो न कश्चिद्विशेषो विद्यते, यो गृह्यते तत्र । एतत् स्यात्- त्वन्मत्या यद्यपि तदस्ति सामान्यम्, ग्रहणकाले तु तन्न स्पृश्यते? इत्याह
ग्रहणे चेत् तदस्पष्टं विभावत्वान गृह्यते॥१२६८॥ ग्रहणकाले यदि तत् सामान्यं सत्ताख्यम् इन्द्रियज्ञानेन न स्पृश्यते, विशेषमात्रमेव गृह्यते, तदा तद्विशेषमात्रं गृह्यमाणं भावरहितं सत्ताख्यस्वभावविकलं नि:स्वभावं प्राप्तमिति नेन्द्रियज्ञानग्राह्यं स्यात्, विभावत्वात् विगतभावत्वात्, वियत्पुष्पवदिति ॥ १२६८ ॥
तस्माद् विशिष्टविषयो बोधोऽथ च कल्पना नास्तीति साहसमेतद्भवतां प्रमाणबाधितमभ्युपगच्छतामित्युपसंहारः । अत्रैवोपपत्तिमाह
. विशिष्टविषयो बोधः कल्पना नेति साहसम्।
न विशेषणसम्बन्धादृते वैशिष्टयसम्भवः ॥१२६९॥ न हि दण्डसम्बन्धमन्तरेण तद्वान् भवति,तद्वद्विशिष्टोऽपि विशेषसम्बन्धमन्तरेण न युक्त इति भावः। तस्माद् यद्विशेषणसम्बन्धग्रहणम्, तत् सविकल्पकमिति। प्रयोगःविवादास्पदीभूतं विशिष्टविषयं ज्ञानं सविकल्पकम्; विशिष्टविषयत्वात्, पटोऽयमित्यादि ज्ञानवदिति ॥ १२६९॥ . सजातीयेत्यादिना प्रतिविधत्ते
संजातीयविजातीयव्यावृत्तार्थग्रहान्मतः।
विशिष्टविषयो बोधो न विशेषणसङ्गतेः ॥१२७०॥ यदत्र यदि व्यतिरिक्तविशेषणसम्बन्धात् 'विशिष्टविषयत्वात्' इति हेत्वर्थः, तदान सिद्धो हेतुः । तथा हि-न बौद्धस्य विशेषणं नाम किञ्चिदस्ति, येन [G.381] तत्सम्बन्धग्रहणाद् विशिष्टविषयो बोध: स्यात्, किं तर्हि ? सजातीयविजातीयेभ्यो व्यावृत्तस्यार्थमात्रस्य ग्रहात्= ग्रहणान्मतः=इष्टः५, विशिष्टविषयो बोधः ॥ १२७० ॥
कथं तर्हि विशिष्टत्वमस्य, वैशिष्ट्यमस्य–इत्यादि व्यपदेशो व्यतिरेकीव? इत्याह१. कुमारिलस्येदं मतम्।
२. सुमतिरिति शेषः। ३. आचार्यः शान्तरक्षित इति शेषः।
४. ०इति-गा। ५. पा०, गा० पुस्तकयोनास्ति।