________________
३२४
तत्त्वसंग्रहे नीलादीनामात्मा स्वभावः, अशक्यसमय: अशक्यसङ्केतः । कथमिति प्रश्ने कारणमाह-अनन्यभागिति। अनन्यभाक्-असाधारणः । व्यवहारकालाप्रत्युपस्थायीति यावत्। व्यवहारार्थत्वात् समयस्येति नात्र शब्दसंकेत:।
किञ्च-विषयीकृते चायं समयो भवति नाविषयीकृते; न तावदनुत्पन्नं प्रत्यक्षं नीलाद्यात्मानं विषयीकरोति, उत्पन्नं चाभिलापमादाय योजयेत् । उत्पत्तिकालेऽभिलापग्रहणकाले च क्षणिकत्वान्न विषयेणापि प्रत्यक्षं विषयीति केन कुत्र जनमित्यतोऽप्यशक्यसमयो नीलादीनामात्मा। तेषामिति नीलादीनाम्। नाभिजल्पानुषङ्गिीति नाविष्टाभिलापा। तत्र प्रयोगः– यद् यत्रागृहीतसमयं न तत् तत्र सविकल्पकं भवति, तद्यथा-चक्षुर्विज्ञानं गन्धे। अगृहीतसमयं च प्रत्यक्षं नीलाद्यात्मनीति व्यापकविरुद्धोपलम्भः ॥ १२६३ ॥ [G.379] नन्क्त्यिादिना प्रथमे हेतौ सुमतेर्दिगम्बरस्य मतेनासिद्धतामाशङ्कते
ननु नामादिकं मा भूत् तस्य ग्राह्यं विशेषणम्।
तथाप्यसिद्धता हेतो व व्यावर्त्तते यतः॥१२६४॥ स हि सामान्यविशेषात्मकत्वेनोभयरूपं सर्वं वस्तु वर्णयति । सामान्यं च द्विरूपम्१. विशेषेणावच्छिन्नं यथा गोत्वादि, २. अनवच्छिन्नं यथा सत्तावस्तुत्वादि । तत्र यदनवच्छिन्नमेकरूपं तदालोचनमात्रस्य निर्विकल्पकप्रत्यक्षस्य गोचरः; इतरत् पुनः सविकल्पकस्यइत्येषा तस्य प्रक्रिया। कुमारिलस्तु-आलोचनाज्ञानं निर्विकल्पकं व्यक्तिस्वलक्षविषयं वर्णयति । सामान्यविषयं तु सविकल्पकं प्रत्यक्षम् ॥ १२६४॥ तत्र सुमतिः कुमारिलाधभिमतालोचनमात्रप्रत्यक्षविचारणार्थमाह
अर्थान्तरव्यवच्छिन्नरूपेणाग्रहणं यदि। अर्थमात्रग्रहो वा स्यादग्रहो वा घटे यथा॥१२६५॥ घटान्तरव्यवच्छिन्नरूपेणाग्रहणं यदि।
घटमात्रग्रहो वा स्यादग्रहो वा घटस्य वै॥१२६६। तद्वादीदं प्रष्टव्यः- किं तदिन्द्रियस्य पुरःस्थितमर्थमात्रं स्वेन रूपेणार्थान्तराऽसम्भविना विशिष्टं गृह्यते? 'उत नेति? यद्यसौ ब्रूयात्-नेति, अत्रोच्यते- अर्थान्तरव्यवच्छिन्नरूपेणाग्रहणं यदि-विवक्षितादाद् यदर्थान्तरम्, ततो व्यवच्छिन्नम् तत्राविद्यमानं विवक्षितार्थस्थं रूपम् स्वभावः, तेन विशिष्टस्य यदि तस्यार्थस्याग्रहणभिष्यते, तदा तदर्थमात्रग्रहो वा स्यात्, यत्तदर्थमात्रमर्थान्तरासम्भवि-स्वभावरहितं तस्यैव ग्रहणं स्यात्। अथ तदपि न गृह्यते, तदा अग्रहो वा= अग्रहणमेव स्यात्।
घटे यथेत निदर्शनमुक्तम्, तोकान्तरेण व्याचष्टे-घटान्तरेत्यादि । अवधीकृतघटासम्भविना रूपेण यदि तस्य घटस्याग्रहणम्, तदा घटमात्रग्रहो वा स्यात् केनचिद्रजतताम्रादिना विशेषेणाविशिष्टस्य घटमात्रस्य ग्रहणं स्यादित्यग्रहो वा घटस्य वै। एवमत्रापि दार्टान्तिके विशेषाग्रहणेऽर्थमात्रग्रहणं न ग्रहणं वा स्यादित्येकान्तः ॥ १२६५-१२६६ ॥ १. सुमतेरित्यर्थः। २. पा०, गा० पुस्तकयोनास्ति।