________________
प्रत्यक्षलक्षणपरीक्षा
३२३ सविकल्पकभावस्य स्थितेराक्षे निबन्धनम्। विपक्षः - शाबलेयादिरन्यथाऽतिप्रसज्यते॥१२५८॥ न चाप्रसिद्धता हेतोर्जात्यादेः प्रतिषेधतः।
भेदेन चापरिच्छेदान्न चास्त्येवं विशेषणम्॥१२५९॥ प्रयोगः-तस्य यद्रूपं व्यवस्थितौ निमित्तं नास्ति, न तत् तथा प्रेक्षावद्भिर्व्यवहर्तृभिर्व्यवस्थाप्यते, तद्यथा-अविद्यमानगोप्रज्ञप्तिनिमित्तभूतककुदादिसमुदायः कर्को गोत्वेन । नास्ति च प्रत्यक्षस्य नीलाद्यसाधारणविषयबलेनोत्पद्यमानस्य सविकल्पकभावव्यवस्थितौ विशेषणविशिष्टार्थग्रहणं निमित्तमिति कारणानुपलब्धिः । वैधhण शाबलेयबाहुलेयादयः । सर्वथा सर्वस्य व्यवस्थानप्रसङ्गो व्यवस्थापयितुश्चाप्रेक्षापूर्वकारिताप्रसङ्गो बाधकं प्रमाणमिति संक्षेपार्थः । कर्क:-शुक्लोऽश्वः । जात्यारिति। विशेषणस्येति शेषः । सन्तु नाम वस्तुभूता जात्यादयः तथाऽपि नासिद्धतेति दर्शयत्राह-भेदेन' चापरिच्छेदादिति' । विशेष्यत्वेनाभिमताद्रूपादेरित्यध्याहार्यम्। यदि नाम भेदेनापरिच्छेदो जातः, तथापि विशेषणं कस्मान्न भवति? इत्याहन चास्त्येवमिति । भेदेनापरिच्छिन्नम्। तस्माद्विशेषणविशिष्टार्थग्रहणं न विद्यत इत्यस्य हेतो - सिद्धता ॥ १२५६-१२५९।।
स्यादेतत्-मा भूज्जात्यादिकं विशेषणम्, शब्दस्वरूपमेव तु विशेषणं भविष्यति? इत्याह
नामापि वाचकं नैव यच्छब्दस्य स्वलक्षणम्। स्वलक्षणस्य वाच्यत्ववाचकत्वे हि दूषिते॥१२६०॥
अध्यारोपितमेवातो . वाच्यवाचकमिष्यते। • अनारोपितमर्थं च प्रत्यक्षं 'प्रतिपद्यते॥१२६१॥ स्वलक्षणस्य सद्भावे सद्भावात् तदभावतः।
व्यवधानादिभावे च तस्यापि व्यतिरेकतः॥१२६२॥ [G.378] न हि स्वलक्षणे सङ्केतः, नापि शब्दस्वलक्षणैः; तयोर्व्यवहारकालेऽनन्वयात् । न च स्वलक्षव्यतिरेकेणान्यच्छब्दस्वरूपमस्ति । न चासंकेतितोऽर्थः शब्देन योज्यते; अतिप्रसङ्गात्। नापि शब्दयोजनमन्तरेण विकल्पः । तस्मादध्यारोपित एव वाच्यवाचकभावः, न पारमार्थिकः। स्यादेतद्- आरोपितमेंवार्थं तर्हि प्रत्यक्ष प्रतिपद्यमानं सविकल्पकं भविष्यति? इत्याहअनारोपितमित्यादि। तदभावत इति । तस्यापि व्यतिरेकत इति सम्बन्धः । तस्य स्वलक्षणस्याभावात्, तस्यापि प्रत्यक्षस्य व्यतिरेकतोऽभावादिति यावत् । कदा स्वलक्षणस्याभावः? इत्याह-व्यवधानाति । आदिशब्देन देशकालविप्रकर्षादिः ॥ १२६०-१२६२ ।। अशक्यसमय इत्यादिना प्रमाणान्तरमप्याह
अशक्यसमयोह्यात्मा नीलादीनामनन्यभाक्। तेषामतश्च संवित्ति भिजल्पानुषङ्गिणी॥१२६३ ॥
१-१. भेदेनापरिल-पा०, गाल। २. अर्थस्वलक्षण इत्यर्थः।