________________
३२२
तत्त्वसंग्रहे शुद्धे च मानसे कल्पे व्यवसीयेत न क्रमः। तुल्या' च सर्वबुद्धीनामाशुवृत्तिश्चिरास्थितेः॥१२५१॥ अतः सर्वत्र विषये न क्रमग्रहणं भवेत्।
सकृद्ग्रहणभासस्तु भवेच्छब्दादिबोधवत्॥१२५२॥ [G.376] एकैका धीः पञ्चभिर्धीभिर्व्यवधीयमानाऽपि नर्तकीदर्शनावस्थायामव्यवहितेव प्रतिभाति। तथा हि- यदैव नर्तकीमुत्पश्यति तदैव गीतादिशब्दं शृणोति, कर्पूरादिरसमास्वादयति, नासिकापुटविन्यस्तकुसुमामोदं जिघ्रति, व्यजनानिलादिस्पर्श च स्पृशति, वस्त्राभारणादिदानादि च चिन्तयति; ततश्च यदि बहुभिर्व्यवधानेऽपि बुद्धीनां सकृद्भावभ्रान्तिराशूत्पत्तिबलादुपजायते, तदा लता तालः, सरो रसः-इत्येवमादावेकैकज्ञानव्यवधानाद् वर्णश्रुतीनामत्यर्थं लघु वर्त्तनमस्तीति सकृद्वर्णप्रतिभासः प्राप्नोति। ततश्च संरो रस इत्यादौ शब्दे श्रूयमाणे श्रुतिभेदः, अर्थप्रतीतिभेदश्च न स्यात्।।
किञ्च–बुद्धेर्विजातीयचक्षुरादिविज्ञानाव्यवहिते नानाविधार्थचिन्तारूपे विकल्पे समुत्पद्यमाने शीघ्रवृत्तिरस्तीति न क्रमव्यवसायः प्राप्नोति। सर्वासां च बुद्धीनां क्षणिकत्वेन चिरानवस्थानादाशुवृत्तिरस्तीति कस्यचिदर्थस्य न क्रमवती प्रतीतिः स्यात् । शब्दादिबोधक दिति। नर्तकीप्रेक्षावस्थायां शब्दादिसंवेदनवत् ॥ १२४९-१२५२॥ . यश्चायमलातवदिति दृष्टान्तः स साध्यविकल इति दर्शयन्नाह- ..
अलातेऽपि सकृद् भ्रान्तिश्चक्राभासा प्रवर्त्तते। न दृशां प्रतिसन्धानाद् विस्पष्टं प्रतिभासनात्॥१२५३॥ तथा हि प्रतिसन्धानं स्मृत्यैव क्रियते न तु। दर्शनेन व्यतीतस्य विषयस्यानवग्रहात्॥१२५४॥ यश्चास्या विषयो नासौ विनष्टत्वात् परिस्फुटः। ...
ततः परिस्फुटो नायं चक्राभासः प्रसज्यते॥१२५५॥ यतो नेयं मानसी भ्रान्तिः क्रमवर्तिनी दर्शनानि घटयन्ती समुपजायते, किं तर्हि ? सकृदेकैवेन्द्रियजा चक्राकारा भ्रान्तिः सामग्रीविशेषबलादुत्पद्यते; विस्पष्टप्रतिभासत्वात्। न हि विकल्पानुबद्धस्य स्पष्टप्रतिभासित्वं युक्तम्। तथा हि- घटना [G.377] क्रियमाणा स्मृत्यैव क्रियते, नेन्द्रियज्ञानेन; तस्य वस्तुसन्निधानबलभाविनोऽतीतार्थग्रहणासामर्थ्यात्। यश्चास्याः स्मृतेर्विषयः, नासौ परिस्फुटः; कस्मात् ? विनष्टत्वात् । तस्मादस्पष्टाभत्वप्रसङ्गानेयं मानसी भ्रान्तिः, किं तर्हि ? इन्द्रियजा- इति साध्यविकलो दृष्टान्तः ॥ १२५३-१२५५ ॥ एवं प्रत्यक्षतो धियः कल्पनाविरहं प्रतिपाद्य साम्प्रतमनुमानतः प्रतिपादयति
यदि चाप्यस्य भावस्य यद्रूपस्थितिकारणम्। न विद्यते न तत्त्वेन स व्यवस्थाप्यते बुधैः ॥१२५६॥ अविद्यमानसास्नादिर्यथा कर्को गवात्मना। विशेषणविशिष्टार्थग्रहणं. न च विद्यते॥१२५७॥
२. विशिष्टार्थे ग्रहणं- पा०, गा० ।
१. अल्पा -पा०, गा०।