________________
प्रत्यक्षलक्षणपरीक्षा
३२१ अनेन यथाक्रमं प्रत्यक्षविरोधम्, अभ्युपगमविरोधं च सकृद्विकल्पद्वयप्रतिज्ञायामाहद्वयोरिति । विकल्पयोरिति शेषः ॥ १२४४ ॥
विकल्पेत्यादिनोपसंहरति. विकल्पकमतो ज्ञानसहभाव्यनुभूयते।
तस्मादिन्द्रियविज्ञानमकल्पनमिदं स्फुटम्॥१२४५॥ विकल्पसहभावित्वमसिद्धमिति कदाचित्परो ब्रूयात्, अतस्तदाशङ्कयन्नाह
क्रमेणैवोपजायन्ते विज्ञानानीति चेन्मतम्। [G.375] यदि क्रमेणोपजायन्ते कथं युगपत् प्रवेद्यन्ते? इत्याह
सकृद्भावाभिमानस्तु शीघ्रवृत्तेरलातवत्॥१२४६॥ अलात इवालातवत् । यथाऽलाते शीघ्रभ्रमणात् सकृच्चक्राकारा प्रतीतिः, तद्दर्शनानां घटनाद्; एवं ज्ञानानां शीघ्रोत्पत्तितः सकृद्भावाभिमान इति। अथ वा-अलातशब्देन विषयिणि ज्ञाने विषयोपचारात् तद्विषयाणि ज्ञानान्युच्यन्ते। पूर्ववद्वतिः ॥ १२४६॥ __ नेति पूर्वपक्षं प्रतिक्षिपलि-.
न तदाऽभिमुखीभूतभावानामनुषङ्गवान्।
विकल्पो विद्यते दृश्य 'इत्यत्रोक्तं न किञ्चन ॥१२४७॥ एवं मन्यते-न सकृद्भावप्रसाधनमत्र प्रकृतम्, किं तर्हि ? धियः कल्पनाविरहः। स च अन्यत्रगतिचित्तस्याप्यभिमुखीभूतपदार्थानुभवकाले तन्नामसंसर्गिणो विकल्पस्योपलब्धिलक्षणप्राप्तस्यानुपलब्ध्या सिध्यतीति ना किञ्चिद् दूषणमुक्तम् । तथा हि- यदि नाम क्रमेण ज्ञाने संवेद्येते, न तु विकल्पः संवेद्य इति न प्रकृतस्य व्याघातः ॥ १२४७ ॥ .
न चायं सकृद्भावाभिमानोऽपि भ्रान्त इत्यादर्शयन्नाह . . भ्रान्तिस्तदभिमानश्च तद्वयक्तं च निरन्तरम्।
तदेव चार्थविज्ञानयोगपद्यमतः स्फुटम्॥१२४८॥ 'भ्रान्तिन' इति प्रकृतं सम्बन्धनीयम्। तदभिमानइति । तस्य-सकृद्भावस्याभिमान इति विग्रहः । बाधकप्रमाणवशाद् विभ्रान्तिव्यवस्थानम्। न चात्र बाधकमस्ति, येन भ्रान्तिः स्यात् । कथं नास्ति? इत्याह-तव्यक्तं च निरन्तरमिति । तदित्यभिमुखीभूतार्थसंवेदनं निरन्तरविषयान्तरासक्तचित्तसमकालं स्पष्टमनुभूयते । तदेव चेदृशमर्थविज्ञानं प्रत्यक्षमुच्यत इति कुतो भ्रान्तिः !॥ १२४८॥
न केवलं सकृद्भावस्य भ्रान्तत्वव्यवस्थां प्रति न किञ्चित् साधकमस्ति, प्रत्युत बाधकमस्तीति दर्शयन्नाह
नर्तकीदृष्ट्यवस्थादावखिलं वेद्यते सकृत्। बहुभिर्व्यवधानेऽपि भ्रान्ति: सा चाशुवृत्तितः॥१२४९ ॥ लतातालादिबुद्धीनामत्यर्थं लघु वर्त्तनम्।
सकृद्भावाभिमानोऽत: किमत्रापि न वर्त्तते॥१२५०॥ १-१. इत्येवोक्तं न... ना-पा०, गा०। . २-२. भ्रान्तिश्चेदाशु०- गा०। ३. ० भवाभि-- पा., गा० ।