________________
३२०
तत्त्वसंग्रहे 'कथं तत् प्रत्यक्षशब्देनोच्यत इति?– 'अनभिधेयार्थः किल कल्पनापोढार्थः' इति मन्वानाः परे भर्गभारद्वाजप्रभृतयश्चोदयन्ति, एतच्च सर्वं परिहतमेवेति योजयन्नाह
एवं प्रतीतरूपा च यदेवं कल्पना मता। तादात्म्यप्रतिषेधश्च प्रत्यक्षस्योपवर्ण्यते॥१२३८॥ तदाऽध्यक्षादिशब्देन वाच्यत्वेऽपि न बाध्यते। कल्पनाविरहोऽध्यक्षे न हि सा शब्दवाच्यता॥१२३९॥ अन्यथा रूपगन्धादेः सविकल्पकता भवेत्। अतो नास्पदमेवेदं यदाहुः कुधियः परे॥१२४०॥ यदि प्रत्यक्षशब्देन · प्रत्यक्षमभिधीयते। ..
कथं तत् कल्पनापोढमयुक्तं गम्यते कथम्॥१२४१॥ तादात्म्यप्रतिषेधइति। “यत्रैषा कल्पना नास्ति तत्प्रत्यक्षम्" इत्यनेन ग्रन्थेन लक्षणकारस्तादात्म्यप्रतिषेधं करोति । एवम्भूतं कल्पनात्मकं यज्ज्ञानं न भवतीत्यर्थः । [G.374] न त्वाधेयनिषेधमिति प्रथमं तावदचोद्यम्। द्वितीयमप्यचोद्यमेव; यतो नानभिधेयार्थः कल्पनापोढार्थो वर्णितः, किं तर्हि ? अविकल्पकार्थः। अविकल्पकमपि ज्ञानं यद्यप्यभिधीयते, शब्देनाध्यवसायानुरोधात्; तथापि रूपादिवन विकल्पकतां यास्यतीति यत्किञ्चिदेतत्॥१२३८१२४१॥ स्यादेतत्-भवत्वेवं यथोपविणता कल्पना, कल्पनापोढं तु कथं सिद्धम् ? इत्याह
प्रत्यक्षं कल्पनापोडं वेद्यतेऽतिपरिस्फुटम्।
अन्यत्रासक्तमनसाऽप्यक्षैर्नीलादिवेदनात्॥१२४२॥ अनेन स्ववित्त्या प्रत्यक्षतः कल्पनाविरहः सिद्धः इत्यादर्शयति॥ १२४२ ॥
स्यादेतत्-असावेव विषयान्तरव्यासक्तो विकल्पः पुरोऽवस्थं नीलादि प्रतिपद्यत इत्याह
नासावेव विकल्पो हि तमर्थं प्रतिपद्यते।
अतीताद्यभिधात्यागात् तन्नामघटनाप्तितः॥१२४३॥ यदि हि स एव विकल्पस्तमर्थं प्रतिपद्येत, तदाऽतीताद्यर्थाभिधानत्यागेन तस्यैव नीलादेर्नाम योजयेत्; एकत्राभिलापद्वयसंसर्गाप्रतीतेरतीताद्यभिधात्यागादित्युक्तम्। तस्याभिमुखीभूतस्य नाम-तन्नाम, तस्य घटना=योजना, तस्या आप्ति:=प्राप्तिः । प्रसङ्ग इति यावत् ॥१२४३॥
स्यान्मतम्-अन्य एव तर्हि विकल्पस्तदा तमर्थं प्रतिपद्यत इत्येवं कस्मान विज्ञायते? इत्याह
तदा तन्नामसंसर्गी विकल्पोऽस्त्यपरो न च।
दृश्यस्याप्रतिसंवित्तेरनिष्टेश्च द्वयोः सकृत्॥ १२४४॥ १. कत्वं-पा०, गा०।
२. भर्तृ०- जै० पुस्तके पाठान्तरम्। ३.पुरस्थं-पा०, गा०।