________________
प्रत्यक्षलक्षणपरीक्षा
३१९ एव शब्दयोजनयां सर्वाप्योजना व्याप्ता। अत एव चाचार्टीयम्"जात्या विशिष्टोऽर्थ उच्यतेगौः" इत्यादिषु यद् 'उच्यते' इति वचनम्, तत् सफलं भवेत् । अन्यथा विना नाम्ना कथम् 'उच्यते' इति स्यात्; अभिधानक्रियायाः शब्दधर्मत्वात् ॥ १२३०-१२३२ ॥ तस्मादित्यादिना कल्पनासिद्धिमुपसंहरति
तस्मात् समस्तसिद्धान्तसंस्थितानां प्रवादिनाम्।
अविवादादयत्नेन' साध्येयं कल्पना मया॥१२३३॥ यद्वार-लक्षणकारस्य कल्पनां सिद्धिरूपां निर्दिशतोऽभिप्रायमाह
एतदागूर्य सकलं नामजात्यादिवर्णनम्। मतयोः स्वान्ययोरित्थमुपादानमिहाकरोत्॥१२३४॥ तेभ्योऽस्माकमियानेव भेद इत्येवमब्रुवन्।
अन्ये त्वित्यादिकं वाक्यमनन्तरमदो जगौ॥१२३५ ॥ एतदागूर्येत । हेयोपादेयविषयकथनं जात्यादियोजना नामयोजनां विना भाविनीत्यादि पूर्वोपवर्णितम्। नामजात्यादिवर्णनमिति । अकरोदिति सम्बन्धः । स्वान्ययोस्तु मतयोरुपादानं हेयोपादेयविषयकथनाय ॥ १२३४-१५२३५॥ न्यायमुखग्रन्थस्तर्हि कथं नेयः? इत्याह
एवं न्यायमुखग्रन्थो व्याख्यातव्यो दिशाऽनया। तत्रायं न्यायमुखग्रन्थः-"यत् ज्ञानार्थरूपादौ विशेषणाभिधायकाभेदोपचारेणाविकल्पकं तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम्" ( ) इति। विशेषणं जात्यादि, अभिधायकं नाम, तयोरभेदोपचारो जात्यादिमद्भिः संज्ञिना च। अभेदोपचारग्रहणमुपलक्षणम्। [G.373] यत्रापि भेदेन ग्रहणम्- अस्य मोत्वमस्येदं नामेति, तत्रापि कल्पनेष्यत एव। . ननु चानुप्रतीतिः कल्पनेति नोक्तम्, तत् कथं तथोक्तकल्पना लभ्यते? इत्याह- ज्ञानमित्यभिसम्बन्धात् प्रतीतिस्तत्र चोदिता॥१२३६॥ ..
एतदुक्तं . भवति-कल्पनावैपरीत्येन ज्ञानमेव प्रत्यक्षत्वेन दर्शयता ज्ञानधर्मत्वं कल्पनाया दर्शितम्। तथा चायमर्थो भवति-यज्ज्ञानं नामाद्यभेदोपचारेणाविकल्पकम्, तत् प्रत्यक्षम्; यत्तु ज्ञानं तथाविकल्पकं तत्कल्पनात्मकत्वान प्रत्यक्षमिति सामर्थ्यादभिलापिनी प्रतीतिः कल्पनेति प्रत्यक्षवैपरीत्येन सिध्यति। एवं परमतसङ्गहो दर्शित इति ॥ १२३६॥ यद्वा-स्वमतोपवर्णनमेव केवल माचार्येण कृतमित्यादर्शयति
यद्वा विशेषणं भेदो येनान्यापोहकृच्श्रुतिः।
जात्यादीनां व्यवच्छेदमनेन च करोत्ययम्॥१२३७॥ भेदो विशेषणं व्यावृत्तिरित्यर्थः । तस्याभिधायकम्, न जात्यादीनाम्; तस्याभेदोपचार इति विग्रहः ॥ १२३७॥
ननु च यदि प्रतीतिरभिलापिनी कल्पना, सा धर्मिणी, न च धर्म्यन्तरे धर्म्यन्तरस्य .. प्रसङ्गः, येन तनिषेधस्तद्धर्मतया क्रियत इत्यसम्बन्धाभिधानम्; तथा यदि प्रत्यक्षं कल्पनापोढम्, १. अविवादानयत्नेन- जै०। २. पा० गा० पुस्तकयो स्ति। ३. जात्यादियोजनां विना-पा०, गा० ।