________________
३१८
तत्त्वसंग्रहे प्रसिद्धस्त्विति। गवादयो हि शब्दा लोके जातिशब्दया प्रतीताः, चित्राङ्गदादयस्तु संज्ञाशब्दत्वेनेति पृथग्वचनम् ॥ १२२५॥ नान्वित्यादिना' परश्चोदयति
नन्वन्यापोहवाच्यत्वाजातिशब्दस्तु केवलः।
विवक्षापरतन्त्रत्वाद् यदृच्छाशब्द एव वा॥१२२६॥ सत्यमित्यदिना प्रतिविधत्ते
सत्यं लोकानुवृत्त्येदमुक्तं न्यायविदेदृशम्।
इयानेव हि शब्दोऽस्मिन् व्यवहारपथं गतः॥१२२७॥ इयानेव हति। पञ्चप्रकारः संज्ञाजातिगुणक्रियाद्रव्यशब्दभेदेन ।। १२२७ ॥
ननु यदि स्वमतसिंद्धैव कल्पनाऽभिप्रेता, किमर्थं तर्हि "अन्ये तु-अर्थशून्यैः शब्दैरेव विशिष्टोऽर्थ उच्यते" ( ) इत्यनेन ग्रन्थेन पृथक्स्वमतसिद्धा कल्पना पश्चादुपवर्णिताऽऽचार्येण? इत्याह
ते तु जात्यादयो नेह लोकवद् व्यतिरेकिणः। इत्येतत्प्रतिपत्त्यर्थमन्ये त्वित्यादिवर्णितम्॥१२२८॥ जात्यादियोजनां येऽपि कल्पनां समुपाश्रिताः।
तैरभ्युपेया नियतं प्रतीतिरभिलापिनी॥१२२९ ।। एतदुक्तं भवति-न शाबलेयादिव्यक्तिव्यतिरिक्ता जात्यादयः परमार्थिकाः सन्ति सांवृतास्त इत्यस्यार्थस्य प्रतिपादनार्थमुक्तमिदं लक्षणकारेण, नतु पृथगपरां कल्पनां दर्शयितुमिति। अन्य इति बौद्धाः। अर्थशून्यैरिति। जात्यादिनिरपेक्षैरपोहमात्रगोचरैः शब्दैः । इत्या चार्यग्रन्थ स्यार्थः ॥ १२२८-१२२९॥
न केवलमस्माभिरियमभिलापिनी प्रतीति: कल्पनाऽभ्युपगता, परैरप्यवश्यमभ्युपगन्तव्या'; अन्यथा जगदव्यवहार्यमेव स्यादिति दर्शन्नाह
अन्यथा योजनाभावाद् युक्तयोरिव भावयोः। स्वातन्त्र्येण परिच्छेदात् कल्पना नैव कल्प्यते॥१२३०॥ एवं वा व्यवहार्यं स्यात् सर्वं विश्वमिदं ततः। जात्यादिरूपसंसृष्टं व्यवहार्यमिदं मतम्॥१२३१॥ जात्यादियोजना शब्दयोजनाऽव्यभिचारिणी।
एवं चोच्यत इत्येतत् फलवज्जायते वचः॥१२३२॥ [G.372] जातिगुणक्रियाद्रव्ययोजनायामपि कल्पनायां परैरभ्युपगतायां नामयोजनैव कल्पना। तथा हि- तत्र जात्यादिव्यवच्छिन्नं वस्तु नाम्नैव विशिष्टं गृह्यते, अन्यथा हि स्वातन्त्र्येणानेकपदार्थग्रहणवद् योजनाभावात् कथं कल्पना भवेत्, ततश्च मूकमेव जगत् स्यात् । अत एव च दण्डयुक्तं पुरुषं पश्यन्नपि न तावद् दण्डीति योजयति यावन्न नामभेदं स्मरति; यत १. नन्वित्यादि-पा०, गा० ।
२. विवक्षाशब्द-पा०, गा०।। ३. ०दमव्यक्तं-जै०।
४. ०वश्याभ्युप०-पा०, गा०।