________________
प्रत्यक्षलक्षणपरीक्षा
३१७ सर्वत्र नामा युक्तोऽर्थ उच्यत इति योजनात्॥१२२३॥ सर्वत्रेतिजात्यादिशब्देष्वपि । एतदुक्तं भवति- यथा [G.370] यदृच्छाशब्देषु नाम्ना विशिष्टोऽर्थ उच्यते, एवं जात्यादिशब्देषु गौरित्यादिषु नाम्ना विशिष्टोऽर्थ उच्यते-इत्येतत् सर्वत्र ग्रन्थे योजनीयमिति ॥ १२२३॥ . कथं तर्हि जात्या गुणेन क्रियया द्रव्येण वेत्येतदपरं तृतीयान्तं योजनीयम्? इत्याह
तैस्तु करणविभक्त्या साफल्यमनुभूयते। जात्या करणभूतया नान्मा विशिष्टोऽर्थ उच्यते गौरिति, तथा गुणादिभिः- इत्येवं तैर्जात्यादिभिः करणविभक्त्या सम्बन्धात् साफल्यमनुभूयते। यद्येवम्, 'नामजात्यादियोजना' इत्यत्र सूत्रे कथं सम्बन्धं कार्यः? इत्याह
नानो जात्यादिभिः सेयमित्यर्थोऽध्यवतिष्ठते॥१२२४॥ योजनेति शेषः । सेयमिति । अनेन समासार्थलभ्यां कल्पनामेव निर्दिशति। जात्यादिभिर्योजना जात्यादियोजना, नाम्नो जात्यादि योजना सेयं नामजात्यादियोजनेत्ययं समासार्थोऽध्यवतिष्ठत इति यावत्॥ १२२४॥
यद्येवम्, यदृच्छाशब्देषु जात्यादीनां प्रवृत्तिनिमित्तानामभावादव्यापिनी व्यवस्था भवेत्? इत्याशङ्कयाह
यदृच्छाशब्दवाच्याया जातेः सद्भावतो न च।
अव्याप्तिरस्य मन्तव्या प्रसिद्धेस्तु पृथक्श्रुतिः॥१२२५॥ एतदुक्तं भवति-येऽप्येते डित्थादयः शब्दा यदृच्छाशब्दत्वेन प्रतीताः, तेऽपि जन्मनः प्रभृत्यामरणक्षणादनुवर्तमानाः प्रतिक्षणभेदभिन्नमसाधारणभेदेन वस्तु गमयितुमशक्ताः कालप्रकर्षमर्यादावच्छिन्नवस्तुसमवेतां जातिमभिधेयत्वेनोपाददते; अन्यथा हि बालाद्यवस्थाभेदपरिच्छिन्नवस्तुभागविषयतया निरूढाः कथं वृद्धावस्थोपहितभेदमपि वस्तु प्रतिपादयेयुः!
येषामपि "न क्षणिको देहः किं तर्हि ? कालान्तरावस्थायी" इति दर्शनम्, तेषामपि यथाकालमपचीयमानावयवसम्बन्धाद्, अवयवापचयाद्वा, अन्यद् द्रव्यमवस्थाभेदेष्विति सिद्धम्। . .
- परिणतिदर्शनेऽपि यदवस्थाभेदसम्बद्धं वस्तु तच्छब्दवाच्यतया प्रतिज्ञातम्, ततश्चावस्थान्तरं समाश्रयेत, तदेव वस्तु तेन शब्देन नाभिधीयेत। यथा पयसि विनिश्चिताभिधानशक्तिः क्षीरशब्दो न दध्रि प्रवर्त्तते, तथा शरीरेऽपि नावस्थान्तरे प्रवर्तेतेति जातिरवश्यमभ्युपगन्तव्या' ।
- अथ वा-मा भूद् वस्तुभूता जातिः, तथाऽपि नाव्यापिनी व्यवस्था। तथा हि-त एव_ भेदा [G.371) अविवक्षितभेदाः सामान्यमिति, भेदा एव सर्वत्र जातिशब्दैरुपादीयन्त इति यदृच्छाशब्दा अपि जात्यभिधायिनः सन्तु। तथा चोक्तम्
. "जातौ पदार्थ जातिर्वा विशेषो वापि जातिवत्।
शब्दैरपेक्ष्यते यस्मादतस्ते जातिवाचिनः"॥ (वा० प० ३.१.१२) इति । किमर्थं तर्हि यदृच्छाशब्दारे जातिशब्देभ्यः पृथग्लक्षणकारेण निर्दिष्टाः? इत्याह१. अवश्याभ्युप०-पा०, गा० । . २-२. पा० गा० पुस्तकयो स्ति। ३-३. पा०, गा० पुस्तकयो स्ति।