________________
३१६
तत्त्वसंग्रहे कर्तुम, तद्वज्जात्यादीनां सत्त्वेऽपि विवेकेनाश्रयादप्रतिभासनान शक्यते तदाश्रयेण सहेत्यर्थः
॥ १२१९॥ . यदि तर्हि जात्यादियोजना कल्पना न युक्तैव, तत्कथं लक्षणकारेणोक्तम्- "नामजात्यादियोजना कल्पना" इति? आह
हेयोपादेयविषयकथनाय द्वयोक्तितः।
परापरप्रसिद्धेयं कल्पना द्विविधोदिता॥१२२०॥ तत्र हेया जात्यादियोजना परप्रसिद्धा कल्पना, उपादेया स्वप्रसिद्धा नामयोजनाकल्पना-इति दर्शनाय द्विप्रकाराऽपि कल्पना निर्दिष्टा । कथमवगम्यते? इत्याह-[G.339] द्वयोक्तितः। यस्मान्नाम च जात्यादयश्च नामजात्यादयस्तेषां योजना-इत्येवं, वर्गद्वयमुक्तम्; अन्यथा नामादियोजना, यदि वा जात्यादियोजना-इत्येव वाच्यं स्यात् । न चेदं परिगणनम्, आदिशब्दवैफल्यप्रसङ्गात् ॥ १२२० ॥
ननु च कल्पना ज्ञानधर्म: तद्विरहप्रतिपादनमेव प्रकृतम्; प्रत्यक्षाधिकारात्, नार्थधर्मविरहप्रतिपादनम्। नामजात्यादीनां च या योजना तद्वद्भिः, साऽर्थगतो.धर्मः, न ज्ञानस्य; ततश्चाप्रस्तुताभिधायित्वं लक्षणकारस्य? इति चोद्यमाशङ्कयाह
नामादियोजना चेयं स्वनिमित्तमनन्तरम्।
आक्षिप्य वर्त्तते येन तेन नाप्रस्तुताभिधा॥१२२१॥ नामादियोजना चेयमिति । अनन्तरम् अव्यवहितं निमित्तं यत्, तस्याः कारणम् । तत् पुनराविष्टाभिलाषा प्रतीतिः । सा च वस्तुद्वयानुसन्धानाकारोत्पत्तितस्तथा योजनेति व्यपदिश्यते। नैव तु कश्चित् कञ्चिद्योजयति; निर्व्यापारत्वात् सर्वधर्माणाम्। तस्याक्षेपो द्वाभ्यां प्रकाराभ्याम्। नामादीनां योजना यतो भवति सा तथोक्ता । गमकत्वाद् वैयधिकरण्येऽपि च बहुवीहिः। कारणे कार्योपचाराद्वा । उपचारस्य च प्रयोजनम्-तंदन्यकारणेभ्यो विशिष्टकार्यकारिणः स्वभावख्यापनम्॥ १२२१ ॥
अथ वा-योज्यतेऽनयेति योजना, नामजात्यादीनां योजनेति समासं कृत्वाऽभिलापिन्येव कल्पना निर्दिष्टेत्यदोष इति दर्शयति
__ नामजात्यादयः सर्वे योज्यन्ते वाऽनयेति सा।
तथोक्ता कल्पना प्रोक्ता प्रतीतिरभिलापिनी॥१२२२॥ यद्वेत्यादिना परिहारान्तरमाह
यद्वा स्वमतसिद्धैव केवला कल्पनोदिता। यद्येवम्, कथमयमा चार्थीयो वृत्तिग्रन्थो नीयते? तद्यथा- "यदृच्छाशब्देषु नाम्ना विशिष्टोऽर्थ उच्यते-डित्थ इति, जातिशब्देषु-जात्या गौरिति, गुणशब्देषु-गुणेन शुक्ल इति, क्रियाशब्देषु-क्रियया पाचक इति, द्रव्यशब्देषु-द्रव्येण दण्डी विषाणी" ( ) इति ।
अनेन हि ग्रन्थेन जात्यादिविशेषणयुक्तस्याप्यर्थस्योच्यमानत्वं पृथक्प्रकाशितमित्यत
आह
१. ताभ्यां- पा०, गा०।