________________
प्रत्यक्षलक्षणपरीक्षा
सर्वप्राणभृतामनुसिद्धत्वाद् विकल्पस्य ॥ १२१४॥
तथा ह्याबालमसावितिकर्त्तव्यताहेतुतया सिद्धैवेति दर्शयतिअतीतभवनामार्थभावनावासनान्वयात् ।
=
• सद्योजातोऽपि यद्योगादितिकर्त्तव्यतापटुः ॥ १२१५ ॥ अतीतो भवः = अतीतं जन्म, तत्र नामार्थभावना= शब्दार्थाभ्यास:, तेनाहिता या वासना=सामर्थ्यम्, तस्या अन्वयः - अनुगमो यतो बालस्याप्यस्ति, तेनाभिलापिनी प्रतीतिस्तस्यापि भवत्येव ! यस्याः = कल्पनाया योगात्, इतिकर्त्तव्यतायाम् = स्मितरुदितस्तनपानप्रहर्षादिलक्षणायाम्, पटुः=चतुरो भवति, अतोऽनया कार्यभूतया यथोक्ता कल्पना बालस्याप्यनुमीयत एव । यथोक्तम्—
" इतिकर्त्तव्यता लोके सर्वा शब्दव्यपाश्रया ।
यां पूर्वाहितसंस्कारो बालोऽपि प्रतिपद्यते " ॥ ( वा० प० १.१२२) इति । सा पुनः सन्मूर्च्छिताक्षराकारध्वनिविशिष्टमन्तर्मात्राविपरिवर्त्तिनमर्थं बहिरिवादर्शयन्ती तेषां समुपजायते, यया पश्चात् सङ्केतग्रहणकुंशला भवन्ति ॥ १२१५ ॥ [G.368] चिन्तेत्यादिना भूयः प्रत्यक्षतः कल्पनासिद्धिमाहचिन्तोत्प्रेक्षादिकाले च विस्पष्टं या प्रवेद्यते ।
अनुविद्धेव सा शब्दैरपह्नोतुं न शक्यते ॥ १२१६ ॥ तस्याश्चेत्यादिना शाब्दव्यवहाराख्यकार्यलिङ्गतोऽपि सिद्धिमाहतस्याश्चाध्यवसायेन भ्रान्ता शब्दार्थयोः स्थितिः ।
३१५
अन्यायोगादसत्त्वेऽस्याः सेदृश्येपि न सम्भवेत् ॥ १२१७॥
यतस्तात्त्विकी शब्दार्थव्यवस्था पूर्वं निषिद्धा, भ्रान्तेति च व्यवस्थापिता । यदि चास्या: कल्पनाया असत्त्वं स्यात्, तदा सा शब्दार्थव्यवस्था, ईदृश्यपि = भ्रान्तापि, न सम्भवेत्; तदभिप्रायवशात् तस्याव्यवस्थानात्, अन्येषां च स्वलक्षणादीनां बाह्यानां वाच्यत्वेनायोगस्य प्रतिपादितत्वात् ॥ १२१७॥
नुं चान्येऽपि न केवलमभिलापिनीं प्रतीतिं कल्पनां वर्णयन्ति, किन्तु जातिगुणक्रियादिसम्बन्धयोग्यामपि, सा कस्मान्न गृह्येत ? इत्याह
-जात्यादियोजनायोग्यामप्यन्ये कल्पनां विदुः । ·
सा जात्यादेरपास्तत्वाददृष्टेश्च न सङ्गता ॥ १२१८ ॥ अदृष्टेति । जात्यादेरिति सम्बन्धः । अयं चाभ्युपगम्य जात्यादीन् परिहार उक्तः
॥ १२१८ ॥
जात्यादीनामित्यादिना तदेवादृष्टत्वं समर्थयते—
१-१. पूर्वैर्निषिद्धा पा०, गा० ।
जात्यादीनामदृष्टत्वात् तद्योगाप्रतिभासनात् ।
क्षीरोदकादिवच्चार्थे घटना घटते कथम् ॥ १२१९ ॥
क्षीरोदकांदिवर्चेति । यथा क्षीरोदकादेर्मिश्रीभूतस्य विवेकेनाप्रतिभासनान्न घटना शक्यते