________________
१७. प्रत्यक्षलक्षणपरीक्षा तत्र प्रमाणे स्वरूप-फल-गोचर-सङ्ख्यासु परेषां विप्रतिपत्तिश्चतुर्विधा । तन्निराकरणेन स्पष्टं प्रमाणलक्षणमादर्शयितुम् “स्पष्टलक्षणसंयुक्तप्रमाद्वितयनिश्चितम्" (तत्त्व०.३) इत्येतत्समर्थनार्थमाह
प्रत्यक्षमनुमानं च यदुपाधिप्रसिद्धये।
परैरुक्तं न तत्सिद्धमेवंलक्षणकं हि तत्॥१२१२॥ उपाधिप्रसिद्धय इति। गुणद्रव्यक्रियाजातिसमवायाधुपाधिप्रसिद्धये। परैरिति वैशेषिकादिभिः। एवमिति वक्ष्यमाणम्॥१२१२॥
तत्र सविकल्पकमज्ञानस्वभावं वा चक्षुरादिकं प्रत्यक्षं प्रमाणमिति प्रत्यक्षस्वरूपविप्रतिपत्तिः, तन्निराकरणेन तल्लक्षणमाह
प्रत्यक्षं कल्पनापोढमभ्रान्तमः । तत्र ज्ञानस्य कल्पनापोढत्वमभ्रान्तत्वं चानूद्य प्रत्यक्षत्वं विधीयते, सर्वत्रैव लक्ष्यस्य विधीयमानत्वात्। यथा- यः कम्पते सोऽश्वत्थ इति । लक्ष्यमत्र प्रत्यक्षम्; तल्लक्षणस्यैव [G.367] प्रस्तुतत्वात्। न तु कल्पनापोढाभ्रान्तलक्षणं प्रकृतम्, येन तद्विधीयत इति स्यात् । कल्पनाप्रतिषेधाच्च ज्ञानस्य सामर्थ्यलब्धत्वात् 'अवत्सा धेनुरानीयताम्' इति यथा वत्सप्रतिषेधेन गोधेनोरिति, अतो ज्ञानमिति नोक्तम्। का पुनरत्र कल्पनाऽभिप्रेता, यदपोढं ज्ञानं प्रत्यक्षम्? इत्याह
- अभिलापिनी। प्रतीतिः कल्पना, अथ यस्यां क्लृप्तिहेतुत्वाद्यात्मिकायां शङ्करंस्वामिप्रभृतयो विस्तरेण दोषमुक्तवन्तः, सापि किं ग्रहीतव्या? उत न? इत्याह
क्लृप्तिहेतुत्वाद्यात्मिका न तु॥१२३३॥ गृह्यते इति शेषः। तेन तदाश्रयेण ये दोषाः परेणोक्ताः, ते तत्पक्षानङ्गीकारादेव नावतरन्तीत्युक्तं भवति । क्लृप्तिः व्यपदेशः, तद्धेतुत्वं जात्यादीनामिति बोद्धव्यम्; यतो जात्यादिविशेषमन्तरेण न व्यपदेशोऽस्ति। आदिशब्देन शब्दसंसर्गचित्तौदारिकसूक्ष्मताहेतू वितर्कविचारौ, तथा ग्राह्यग्राहककल्पनेत्येवमादि ग्रहीतव्यम्। अभिलाप: वाचकः शब्दः, स च सामान्याकारः, स विद्यते यस्याः प्रतिभासतः सा तथोक्ता ॥ १२१३॥ . कुतः पुनरीदृशी प्रतीतिः सिद्धा? इत्याह
शब्दार्थाघटनायोग्या वृक्ष इत्यादिरूपतः।
या वाचामप्रयोगेऽपि साभिलापेव जायते॥१२१४॥ वृक्ष इत्यादिरूपतो या वाचामप्रयोगेऽपीति सम्बन्धः । यदि वा-पूर्वेण शब्दार्थघटनायोग्या वृक्ष इत्यादिरूपत इति सम्बन्धः । अनेन प्रत्यक्षत एव कल्पनायाः सिद्धिमादर्शयति; १. ननु- जै०।