________________
[G.366]
शब्दार्थपरीक्षा
३१३ अत्र दृष्टान्तमाह
. तिमिरोपहताक्षो हि यथा प्राह शशिद्वयम्।
स्वसमाय तथा सर्वा शाब्दी व्यवहतिर्मता॥१२१०॥ स्वसमाति। आत्मतुल्याय, अपरस्मै तैमिरिकायेत्यर्थः ॥ १२१०॥ न चाप्यानर्थक्यं संकेतस्येति दर्शयति
व्यापकत्वं च तस्येदमिष्टमाध्यवसायिकम्। सङ्केतव्यवहाराप्तकालव्यापकत्वं च वक्तृश्रोतृभ्यामध्यवसितार्थप्रतिबिम्बकस्यावसाय- . वशादेवेष्टम्, न परमार्थतः; व्यवहारकालेऽपि वक्तृश्रोत्रोः पूर्वापरकालदृष्टयोरर्थयोरैक्याभिमानात्। अथ परमार्थतः कस्मान्नेष्टम् ? इत्याहमिथ्यावभासिनी ह्येते प्रत्ययाः शब्दनिर्मिताः॥१२११॥
इति शब्दार्थपरीक्षा॥.