________________
तत्त्वसंग्रहे वक्तृश्रोत्रोः, यथा हि स्वलक्षणादौ संकेतासम्भवः, वैफल्यं च, तथाऽपोहपक्षेऽपि समानम्, ततश्चा-कृतसमयत्वात् तन्मात्रद्योतकत्वमपि शब्दानां न युक्तमित्यनैकान्तिकता हेतोः । साफल्यं च कश्चमिति। सम्भवतीति शेषः । तस्येति संकेतस्य। कथं पुनस्तत्र संकेतासम्भवः? इत्याहन द्वयोः स हि सिध्यति । हिशब्दो हेतौ। यस्मात् [G.365] प्रतिबिम्बात्मकोऽपोहः सङ्केतविषयोर्द्वयोर्वक्तश्रोत्रोरेको न सिध्यति ॥ १२०७॥ कस्मात् ? इत्याह
न हि ज्ञानं वेद्यते तत् परस्परम्। संकेते न च तदृष्टं व्यवहारे समीक्ष्यते?॥१२०८॥ प्रत्यात्मसंवेदनीयमेवाग्दिर्शनानां ज्ञानम्- न ह्यन्यदीयज्ञानमपरोऽपरदर्शनः संवेदयते। ज्ञानादव्यतिरिक्तश्च परमार्थतः प्रतिबिम्बात्मकलक्षणापोहः, ततश्च वक्तृश्रोत्रोर्द्वयोरपि कस्यचिदेकस्य सङ्केतविषयस्यार्थस्यासिद्धेः कुत्र सङ्केतः क्रियते, गृह्यते वा! न ह्यसिद्धे वस्तुनि वक्ता सङ्केतं कर्तुमीश:', नापि' श्रोता ग्रहीतुम्; अतिप्रसङ्गात्। तथा हि-श्रोता यत्प्रतिपद्यते स्वविज्ञानारूढमर्थप्रतिबिम्बकं न तद्वक्त्रा संवेद्यते। यच्च वक्त्रा संवेद्यते न तच्श्रोत्रा; स्वस्य स्वस्यैवावभासस्य वेदनात्। आनर्थक्यं च प्रतिपादयन्नाह-संकेते न च्यादि। यत्संकेतकाले प्रतिबिम्बकमनुभूतं श्रोत्रा वक्त्रा वा, न तद्व्यवहारकालेऽनुभूयते; तस्य क्षणक्षयित्वेन चिरनिरुद्धत्वात्। यच्च व्यवहारकालेऽनुभूयते न तत्सङ्केतकाले दृष्टम्; अन्यस्यैव तदानीमनुभूयमानत्वात्। न चान्यत्र सङ्केतादन्यत्र व्यवहारो युक्तः; अतिप्रसङ्गादिति ॥१२०७१२०८॥ स्वस्य स्वस्येत्यादिना प्रतिविधत्ते
स्वस्य स्वस्यावभासस्य वेदनेऽपि स वर्त्तते। ___ बाह्यार्थाध्यवसाये तद् द्वयोरपि समो यतः॥१२०९॥
न हि परमार्थतो ज्ञानाकारोऽपि शब्दानां वाच्यतयाऽभीष्टः, येन तत्र सङ्केतासम्भवश्चोद्यते; यतः सर्व एवायं शाब्दो व्यवहारः स्वप्रतिभासानुरोधेन तैमिरिकद्वयद्विचन्द्रदर्शनवद् भ्रान्त इष्यते; केवलमर्थशून्याभिजल्पवासनाप्रबोधाच्छब्देभ्योऽर्थाध्यवसायिविकल्पमात्रोत्पादात् । तत्प्रतिबिम्बकं शब्दानां वाच्यमित्यभिधीयते जननात्, न त्वभिधेयतया। तत्र यद्यपि स्वस्य स्वस्यैवावभासस्य वक्तृश्रोतृभ्यां परमार्थतः संवेदनम्, तथापि तैमिरिकद्वयस्येव भ्रान्तिबीजस्य तुल्यत्वाद् द्वयोरपि वक्तृश्रोत्रोर्बाह्यार्थाध्यवसायस्तुल्य एव; तथापि वक्तुरयमभिमानो वर्त्तते- 'यमेवाहमर्थं प्रतिपद्ये तमेवायं प्रतिपद्यते' इति । एवं श्रोतुरपि योज्यम्। एकार्थाध्यवसायित्वं कथमनयोर्वक्तश्रोत्रोः परस्परं विदितमिति चेत् ? यदि नाम परमार्थतो न विदितम्, तथापि भ्रान्तिबीजस्य तुल्यत्वादस्त्येव परमार्थतः स्वप्रतिभासानुरोधेन तैमिरिकद्वयवद् भ्रान्त एवायं व्यवहार इति निवेदितमेतत् । तेनैकार्थाध्यवसायवशात् संकेतकरणमुपपद्यत एव॥ १२०९॥
कर्तुमीशानोऽपि- पा०, गा०। २. जै० पुस्तके नास्ति। ३. ०खर्थावसायि०- पा० गा०।
१