________________
शब्दार्थपरीक्षा
३११ नास्त्येव, तस्य किमधिष्ठानोऽपोहो वाच्य उच्यते! अवश्यं हि वस्तुनाधिष्ठानभूतेनापोहस्य भवितव्यम्; तस्यान्यापोढपदार्थाव्यतिरेकात् ॥ १२०१ ।। रूपाभावदित्यादिना प्रतिविधत्ते
रूपाभावादभावानां शब्दा जात्यादिवाचकाः।
नाशडूया एव सिद्धास्ते निर्भासस्यैव सूचकाः॥१२०२॥ वन्ध्यासुतादीनामभावानां रूपस्य कस्यचित् स्वभावान्न तद्विषयाः शब्दा जात्यादिवाचकत्वेनाशयाः, वस्तुवृत्तीनां हि शब्दानां किं रूपमभिधेयम्? आहोस्वित् प्रतिबिम्बकम्?इति शङ्का स्यात्, अभावश्च वस्तुविवेकलक्षण एवेति तवृत्तीनां शब्दानां कथमिव वस्तुविषयत्वाशङ्का भवेत् ! अतो निर्विषयत्वं स्फुटतरमेव। 'तत्र शब्दानां प्रतिबिम्बकमात्रोत्पादादवसीयत एवेत्यस्थानमाशङ्कायाः ॥ १२०२।। एतदेव दर्शयति
अर्थशून्याभिजल्पोत्थं वासनामात्रनिर्मितम्।
प्रतिबिम्बं यदाभाति तच्छब्दैः प्रतिपाद्यते॥१२०३॥ शब्दरिति वन्ध्यासुतादिशब्दैः ॥ १२०३ ॥ .. [G.364] ये पुनर्वस्तुविषयाः शब्दाः, तेषां प्रतिबिम्बकमात्रवाचकत्वसिद्धौ प्रमाणयन्नाह
तन्मात्रद्योतकाश्चमे साक्षाच्छब्दाः ससंशयाः।
संकेतसव्यपेक्षत्वात् कल्पितार्थाभिधानवत्॥१२०४॥ ये सङ्केतसव्यपेक्षास्तेऽर्थशून्याभिजल्पाहितवासनामात्रनिर्मितविकल्पप्रतिबिम्बकमात्रावद्योतकाः, यथा वन्ध्यापुत्रादिशब्दाः कल्पितार्थाभिधायिनः । सङ्केतसव्यपेक्षाश्च ससंशया विवादास्पदीभूता घटादयः शब्दा इति स्वभावहेतुः ।। १२०४॥
एवं स्वपक्षं.प्रसाध्य परपक्षनिषेधाय प्रमाणयन्नाह. परोपगतभेदादिविधानप्रतिपादकाः ।
न चैते ध्वनयस्तस्मात् तद्वदेवेति गम्यताम्॥१२०५॥ भेद: स्वलक्षणम्, आदिशब्देन जात्यादिशब्देन जात्यादिपरिग्रहः। तस्मादिति सङ्केतसापेक्षत्वात्। तद्वदेवेति कल्पितार्थाभिधानवत् ॥ १२०५ ॥
द्वयोरपि हेत्वोरनैकान्तिकतां परिहरन्नाह... सङ्केतासम्भवो पत्र भेदादौ साधित: पुरा।
वैफल्यं च न तद्धत्वोः सन्दिग्धव्यतिरेकिता॥१२०६॥ अशक्यसमयत्वाद्, अनन्यभाक्त्वाच्चेति पूर्वं स्वलक्षणादौ सङ्केतासम्भवस्य सङ्केतवैफल्यस्य च प्रसाधितत्वात्। तत्-तस्मात् । हेत्वोयोन सन्दिग्धविपक्षव्यतिरेकितेति ॥१२०६॥ नन्क्त्यिादिना परः प्रथमे हेतावनैकान्तिकतामुद्भवयति
ननु चापोहपक्षेऽपि कथं सङ्केतसम्भवः। साफल्यं च कथं तस्य न द्वयोः स हि सिध्यति॥१२०७॥
२-२. जल्पोत्थवासना-पा०, गा०।
१. तव-पा०; तच्च-गा०।