________________
३१०
तत्त्वसंग्रहे प्रतिबिम्बं हि शब्दार्थ इति साक्षादियं मतिः। जात्यादिविधिहानिस्तु सामर्थ्यादवगम्यते॥११९६ ॥ घटवृक्षादिशब्दाश्च तदेव प्रतिबिम्बकम्। ब्रुवन्ति जननात् साक्षादादन्यत् क्षिपन्ति तु॥११९७॥ तस्मान्न विधिदोषोऽस्ति नानिष्टा च प्रसज्यते।
अवाच्यपक्षदोषस्तु तदनङ्गीकृतेर्न नः॥११९८ ॥ त्रान्यापोहवाच्यत्वविकल्पो यद्यन्यापोहशब्दमधिकृत्याधिक्रियते, तदा विधिरूपेणैवासौ तेन शब्देन वाच्य इत्यभ्युपगमान्नानिष्टापत्तिर्युक्ता। तथा हि- किं विधिः शब्दार्थः? आहोस्विदन्यापोह:? इति प्रस्तावे अन्यापोहः शब्दार्थः' इत्युक्ते प्रतिपत्तुर्यथोक्तप्रतिबिम्बलक्षणान्यपोहाध्यवसायी प्रत्ययः समुपजायते । अर्थात्तु विधिरूपशब्दार्थनिषेधः । अथ घटादिशब्दमधिकृत्य? तत्रापि यथोक्तप्रतिबिम्बलक्षणापोह: साक्षाद् घटादिशब्दैरुपजन्यमानत्वाद्विधिरूपेण च तैः प्रतिपाद्यते, सामर्थ्यात्वन्यनिवृत्तेरधिगम इति नानिष्टापत्तिः । न चाप्यनवस्थादोषः । सामर्थ्यादन्यनिवृत्तेर्गम्यमानत्वादनुवाच्यतयाऽवाच्यपक्षस्यानङ्गीकृतत्वादेव न तत्पक्षभाविदोषोदयावकाश इति दर्शयति-अवाच्यपक्षदोषस्विति॥ ११९४-११९८॥ ___ अपि च-एकत्वनित्यत्वेत्यादौ (तत्त्व० ९९४) आह
एकत्वनित्यतादिश्च कल्पितो न तु तात्त्विकः। ।
तदत्र हासकरणं . महाविद्वत्त्वसूचकम्॥११९९ ॥ यदि हि पारमार्थिकमेकत्वाद्युपवर्णनं कृतं स्यात्, तदा हास्यकारणमेव स्याद्भावतः । [G.363] यदा हि भ्रान्तिप्रतिपत्त्यनुरोधेन काल्पनिकमेतदा चार्येणोपवर्णितम्, तदा कथमिव हास्यकारणमवतरति विदुषः ! किन्तु भवानेव विवक्षितमर्थमविज्ञाय दूषयन् विदुषामतीव हास्यास्पदमुपजायते ॥ ११९९॥ . . . "तस्याद्येष्वेव शब्देषु नयोगः" (तत्त्व १००१) इत्यादावाह
अवधारणसामर्थ्यादन्यापोहोऽपि गम्यते।
स्वात्मैव गम्यते यत्र विफलो नियमोऽन्यथा॥१२००॥ न केवलं यत्र नव्योगस्तत्रान्यनिवृत्त्यंशोऽवगम्यते, यत्रापि हि नञ्योगो नास्ति तत्रापि गम्यत एव- इति स्ववाचैवैतद्भवता प्रतिपादितम् "स्वात्मैव गम्यते" इत्यवधारणं कुर्वता;
अन्यथाऽवधारणवैयर्थ्यमेव स्यात् । यस्माद् यत्र स्वात्मैव गम्यते तत्रावधारणसामर्थ्यादन्यापोहोऽपि गम्यत इति स्फुटतरमवसीयते ॥ १२०० ॥ यस्य तीत्यादिना परोऽपोहशब्दार्थव्यवस्थाया अव्यापितामेवोद्भावयति
यस्य तर्हि न बाह्योऽर्थोप्यन्यथावृत्त इष्यते।
वन्ध्यासुतादिशब्दस्य तेन क्वाऽपोह उच्यते॥१२०१॥ तथा हि-यस्य वन्ध्यासुतादिशब्दस्य बाह्यसुतादिकं वस्त्वन्यव्यावृत्तमपोहाश्रयो १. चाप्यव्यवस्था०- पाल, गा०।
२. अन्यथा चाव०- पा०. गा०/