________________
शब्दार्थपरीक्षा
३०९ न भावो नापि चाभावोऽपृथगेकत्वलक्षणः।
नाश्रितानाश्रितोऽपोहो नैकानेकश्च वस्तुतः॥११८८॥ कस्माद्भावो न भवति? इत्याह
[G.361] तथाऽसौ नास्ति तत्त्वेन यथाऽसौ व्यवसीयते।
तन्न भावो न चाभावो वस्तुत्वेनावसायतः॥११८९॥ बाह्यरूपतयाऽसौ भ्रान्तैरवसीयते, न चासौ तथाऽवस्थित इत्यतो बाह्यरूपत्वाभावान्न भावः । अथाभावः कस्मान्न भवति? इत्याह-न चाभावो वस्तुत्वेनावसायतइति। 'बाह्यरूपतयावसितत्वान्नैकान्तेनाभाव इत्यपि शक्यं वक्तुम्॥ ११८९॥ अथ पृथक्त्वैकत्वादिलक्षणः कस्मान्न भवति? इत्याह
भेदाभेदादयः सर्वे वस्तुसत्परिनिष्ठिताः।
निःस्वभावश्च शब्दार्थस्तस्मादेते निरास्पदाः॥११९०॥ भेदाभेदादयः व्यतिरेकाव्यतिरेकादयः। आदिशब्देनाश्रितत्वादयो गृह्यन्ते। न हि वस्तुगता एव धर्माः, तत्कथमपोहे कल्पनाशिल्पिघटितविग्रहे प्रतिष्ठां लभेरन्! यज्चोक्तम्"क्रियारूपत्वादपोहस्य विषयो वक्तव्यः" (तत्त्व० ९८८) इति, तदसिद्धम्; शब्दवाच्यस्यापोहस्य प्रतिबिम्बात्मकत्वात्। तच्च प्रतिबिम्बकमध्यवसितबाह्यवस्तुरूपत्वान्न प्रतिषेधमात्रम्। अत एव–'किंगोविषयः, अथागोविषयः' इत्यस्य विकल्पद्वयस्यानुपपत्तिः; गोविषयत्वेनैव तस्य विधिरूपतयाऽध्यवसीयमानत्वात्।। ११९०॥
यच्चाक्तम्- "केन ह्यगोत्वमासक्तं गोर्येनैतदपोह्यते" (तत्त्व० ९८८) इति? तत्राह• अन्यार्थविनिवृत्तिं च साक्षाच्छशब्दः करोति नः।
कृते स्वार्थाभिधाने तु सामर्थ्यात् साऽवगम्यते॥११९१॥ न तदात्मा परात्मेति विस्तरेणोपपादितम्। .परपक्षानभिज्ञेन तस्मादेतदिहोच्यते॥११९२॥ केन गोत्वमासक्तं गोर्येनैतदपोयते।
इति नैवाभिमुख्येन शब्देनैतदपोयते॥११९३॥ यदि हि प्रधानेनान्यनिवृत्तिमेव शब्दः प्रतिपादयेत् तदैतत् स्यात्, यावताऽर्थप्रतिबिम्बकमेव यथोक्तं प्रथमतरः शब्दः करोति, तद्गतौ च सामर्थ्यादन्यनिवर्त्तनं गम्यत इति सिद्धान्तानभिज्ञतया यत्किञ्चिदभिहितमेतदिति संक्षेपार्थः । शेषं सुबोधम् ॥ ११९१-११९३ ॥
व्यतिरेकादिविकल्पः पूर्वमेव निरस्तः । यदुक्तम्- "किमयमपोहो वाच्यः" [G.362] (तत्त्व० ९९६) इत्यादि, तत्राह- ..
... कतमेन च शब्देन वाच्यत्वं परिपृच्छ्यते।
अपोहस्य किमेतेन यदि वा किं घटादिना॥११९४॥ __शब्दार्थः किमपोहो वा विधिर्वेति निरूपणे।
अपोह इति भात्येतद् यत् तदेवं प्रतीयते॥११९५॥ १. बाह्यरूपतया दर्शितत्वा०- पा०, गा०।
२. सामर्थ्यादेव निवर्तनम्- पा०, गा० ।