SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३०८ तत्त्वसंग्रहे न शक्यत इति । कर्तुमिति शेषः । कथं स्वसंवेद्यत्वं सिद्ध ज्ञानाकारस्य? इत्याहविद्यते हीत्यादि।स्वप्रादिष्वर्थमन्तरेणापि निरालम्बनमगृहीतार्थाकारमारोपकं ज्ञानमागोपालमति स्फुटमेव स्वसंवेदनप्रत्यक्षसिद्धम्। न च 'देशकालान्तरावस्थितोऽर्थस्तेन रूपेण संवेद्यते' इति युक्तं वक्तुम्; तस्य तद्रूपाभावात् । न चान्येन रूपेणान्यस्य संवेदनं युक्तम्; अतिप्रसङ्गात्। किञ्च-अवश्यं भवद्भिर्ज्ञानस्यात्मगतः कश्चिद् विशेषोऽर्थकृतोऽभ्युपगन्तव्यः, येन बोधरूपतासाम्येऽपि प्रतिविषयम् 'नीलस्येदं संवेदनम्, न पीतस्य' इति विभागेन विभज्यते ज्ञानम् । तदभ्युपगमे च सामर्थ्यात् साकारमेव ज्ञानमभ्युपगतं स्यात्; आकारव्यतिरेकेणान्यस्य स्वभावविशेषत्वेनावधारयितुमशक्यत्वात् । अतो भवता स्वभावविशेष इति स एव शब्दान्तरेणोक्तः, अस्माभिस्त्वाकार उल्लेख इत्यादिना शब्देनेति केवलं नानि विवादः ॥ १.१८०-११८२॥ "एवमित्यादिशब्दानाम्" (तत्त्व० ९८०) इत्यादावाह एवमित्यादिशब्दानां नैवमित्यादि विद्यते। अपोह्यमिति विस्पष्टं प्रकारान्तरलक्षणम्॥११८३॥ [G:360] 'एवमेतत्' 'नैवम्' इति प्रकारान्तरमारोपितमेवमित्यादिशब्दैर्व्यवच्छिद्यमानं स्फुटतरमवसीयत एवेति नाव्यापिता शब्दार्थव्यवस्थायाः ॥ ११८३॥ . एवं कुमारिलेनोक्तं दूषणं प्रतिविहितम्, इदानीमुद्द्योतकरोक्तं प्रतिविधीयते । तत्र यदुक्तम् " सर्वशब्दस्य कश्चार्थो, व्यवच्छेद्यः प्रकल्प्यते" (तत्त्व० ९८१) इति। तत्राह __ व्यवहारोपनीते च सर्वशब्देऽपि विद्यते। व्युदास्यं तस्य चार्थोऽयमन्यापोहोऽभिधित्सितः॥११८४॥ अत्रापि ज्ञेयादिपदवत् केवलस्य सर्वशब्दस्याप्रयोगाद् वाक्यस्थस्यैव नित्यं प्रयोग इति यदेव मूढमतेराशङ्कास्थानं तदेव निवर्त्यमस्ति। अभिधित्सित इति अभिधातुमिष्टः ॥ ११८४॥ कोऽसावर्थोऽभिधातुमिष्टः? इत्याहः सर्वे धर्मा निरात्मानः सर्वे वा पुरुषा गताः। सामस्त्यं गम्यते तत्र कश्चिदंशस्त्वपोह्यते॥११८५॥ कोऽसावंशोऽपोह्यते? इत्याह केचिदेव निरात्मानो बाह्या इष्टा घटादयः। गमनं कस्यचिच्चैवं भ्रान्तिस्तंद् विनिवर्त्तते॥११८६॥ "एकाद्यसमिति चेत्" (तत्त्व० ९८२) इत्यादावाह सर्वाङ्गप्रतिषेधश्च नैव तस्मिन् विवक्षितः। स्वार्थापोहप्रसङ्गोऽयं तस्मादज्ञतयोच्यते॥११८७॥ यदि हि सर्वस्याङ्गस्थ प्रतिषेधस्तस्मिन् व्यवहारोपनीते वाक्यस्थे सर्वशब्दे विवक्षित स्यात्, तदा स्वार्थापोहः प्रसज्यते; यावता यदेव मूढधिया शङ्कितं तदेव निषिध्यत इति कुत स्वार्थापवादित्वदोषप्रसङ्गः! एवं ह्यादिशब्देष्वपि वाच्यम् ॥ ११८७ ।। यच्चोक्तम्- "किं भावोऽथ वाऽभावः" (तत्त्वं० ९८५) इत्यादि, तत्राह१. तद्रवद्भि०- पा०, गा०। २. नीलस्यैव- पा०, गा०/
SR No.002258
Book TitleTattvasangraha Part 01
Original Sutra AuthorN/A
AuthorDwarikadas Shastri
PublisherBauddh Bharati
Publication Year1997
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy