Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 358
________________ ३३२ तत्त्वसंग्रहे नैव चेनिश्चितं वस्तु निश्चयस्तूत्तरोत्तरः ॥१२९८॥ समारोपे व्यवच्छेदविषयाद्धि यथाऽनुमा। समारोपव्यवच्छेदविषयो निश्चयस्तथा ॥१२९९॥ तथा हि-प्रथमं सम्मुग्धरूपेणालोचनाज्ञानेनाधिगतम्, न हि निश्चितरूपेण; उत्तरोत्तरस्तु निश्चयः प्रमाणम्, समारोपव्यवच्छेदविषयत्वादनुमानवत्। यथा प्रत्यक्षेणगृहीते शब्दादौ धर्मिणि कृतकत्वादिनाऽनित्यत्वनिश्चयो भवन् प्रमाणं भवति, तथा समारोपव्यवच्छेदविषयो निश्चयो भविष्यति। तथा हि भवतामत्राविवादः-समारोपव्यवच्छेदविषयो निश्चयइति । यथोक्तम् "निश्चयारोपमनसोर्बाध्यबाधकभावतः। समारोपविवेकेऽस्य प्रवृत्तिरिति गम्यते" (प्र० वा० ३.४८) इति ॥ १२९९ ॥ नेत्यादिना प्रतिविधत्ते न समारोपविच्छेदविषयत्वेन मानता। . ' अनुमायाः प्रमाणत्वप्रसङ्गेन स्मृतेरपि ॥१३००॥ प्रत्यक्षानन्तरोद्भूतसमारोपनिवारणात् ।' इष्टं तु लैङ्गिकं ज्ञानं प्रमाणं न तदस्ति ते ॥१३०१॥ [G.389] प्रवृत्तसमारोपव्यवच्छेदेनानुमानस्य, प्रमाण्यम्, न तु पुनः समारोपविषयव्यवच्छेदमात्रेण; स्मृतेरपि प्रामाण्यप्रसङ्गात्। न च तत् प्रत्यक्षसमनन्तरभाविनो गौः शुक्लश्चलतीत्यादेर्विकल्पस्य प्रवृत्तसमारोपनिवारणमस्ति; अन्तरा समारोंपस्यानुत्पन्नत्वात् ।।१३००-१॥ कथमनुत्पन्नत्वमिति चेद्? आह गौः शक्लश्चलतीत्यादौ प्रत्यक्षानन्तरं न हि। समारोपोऽत्र विज्ञाने वेद्यते यनिषेध्यते ॥१३०२॥ गौरित्यादि। न हि विकल्पोऽसंविदित उत्पद्यत इत्युपलब्धिलक्षणप्राप्तस्यानुपलब्ध्या सिद्धमनुत्पन्नत्वं समारोपस्य ॥ १३०२॥ एवं तावदेतत् सर्वं जात्यादिकमभ्युपगम्योक्तम्, इदानी जात्यादयः परमार्थतो न सन्त्येव, कुतस्तद्विषयतया प्रत्यक्षस्य सविकल्पता भविष्यतीति दर्शयन्नाह-- तत्त्वान्यत्वोभयात्मानः सन्ति जात्यादयो न च। यद्विकल्पकविज्ञानं प्रत्यक्षत्वं प्रयास्यति ॥१३०३॥ अन्वयासत्त्वतो भेदाद् भेदेनाप्रतिभासनात्। अन्योन्यपरिहारेण स्थितेश्चान्यत्वतत्त्वयोः ॥१३०४॥ व्यक्तिभ्यो हि जात्यादयः कदाचिदव्यतिरिक्ताः, व्यतिरिक्ता वा, व्यतिरिक्ताव्यतिरिक्तत्वेनोभयात्मानो वा। न तावदाद्यः पक्षः; अन्वयासत्त्वत: अन्वयाभावात्। अनेकवस्त्वनुगतं हि रूपं सामान्यमुच्यते, न चैवं व्यक्तयः परस्परमन्वाविशन्ति, येन ता एव सामान्यं भवेयुः । अन्वावेशे वा विश्वमेकमेव रूपं जातमिति सामान्यस्यैवाभावप्रसङ्गः, अनेकाधारत्वात् तस्य। १-१.समारोपव्यवच्छेदविषयत्वाद-पा०, गा०। २.०समारोपणवारणात्-पा०, गा०। ३. यनिषिध्यते-पा०, गा० ।

Loading...

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444