Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
________________
प्रत्यक्षलक्षणपरीक्षा
स्वानुरूपां तदा बुद्धिं विशेष्ये जनयेत् कथम् ॥ १२९५ ॥ पर्यायेण भेदस्याप्यभ्युपगतत्वा देकान्तत इत्याह । तथा हि- भिन्नाभिन्नस्वभावा जात्यादयस्तस्येष्टा नेकान्ततो भिन्नाः, नाप्यभिन्नाः । तथा चाह"बुद्धिभेदान्न चैकत्वं रूपादीनां प्रसज्यते । एकानेकत्वमिष्टं वा सत्तारूपादिभेदतः ॥"
( श्वो० वा०, प्रत्य० सू० १५८) इति ।
पुनश्चोक्तम्
३३१
" स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि नः ॥
(श्लो० वा० प्रत्य० सू० १४१ ) इति । परत्वमिति अन्यत्वम्। स्वानुरूपामिति । विशेषणस्वरूपोपरक्ताम् । यतो विशेषणोपरक्तं विशेष्यं ग्राहयद् विशेषमुच्यते, अन्यथा 'विशेषणस्यानुपपन्नत्वादिति भावः । यथोक्तम्"स्वबुद्ध्या येन रज्येत विशेष्यं तद्विशेषणम्" ( ) इति ॥ १२९५ ॥ अथापि स्यात्–स्वसामान्नलक्षणविषयत्वेनोभयविषयत्वात् केवलस्वलक्षणमात्रविषयत्वमसिद्धमेवोत्तरेषां ज्ञानानाम् ? इत्याह
स्वसामान्यात्मनोर्युक्तं' ज्ञानं चैकं न वेदकम् ।
सविकल्पान्यथाभावे प्राक्तनापरविन हि ॥ १२९६ ॥ स्वलक्षणसामान्यलक्षणयोर्नैकं ज्ञानं वेदकं युक्तम् । तथा हि-तदेकं ज्ञानं सविकल्पकं वा स्याद्, अविकल्पकं वा; तत्र सविकल्पकभावे - सविकल्पकत्वे सति, प्राक्तनस्य = 1 = पूर्वोक्तस्य स्वलक्षणस्य, वित्= वेदनम्, न प्राप्नोति । अन्यथाभाव इति । निर्विकल्पकपक्षे । अपरस्येति सामान्यात्मनः, वित्-वित्तिर्न स्यात् ॥ १२९६॥
=
[G.388] एवं तावत् स्वलक्षणविषयत्व इतरेषां ज्ञानामविकल्पकता प्राप्नोतीति साधितम्, इदानीं भवतु नाम सविकल्पकत्वम्, तथापि गृहीतग्राहित्वान्न तेषां प्रामाण्यमेव युक्तमिति प्रतिपादयन्नाह -
. एकान्तेनान्यताभावाज्जात्याद्याद्येन चेद् गतम् । .तिज्ञातार्थाधिगन्तृत्वात् स्मार्त्तज्ञानसमं परम् ॥ १२९७ ॥
तथा हि-जात्यादेर्व्यक्तितो नैवान्यत्वमेकान्तेनेष्टम् । यथोक्तम् - "स्थितं नैव हि जात्यादेः परत्वं व्यक्तितो हि नः " ( श्लो० वा० प्र० सू० १४१ ) इति । ततश्चाद्येनैवालोचनाज्ञानेन जात्यादि गृहीतमिति स्मार्त्तज्ञानवदधिगतार्थाधिगन्तृत्वात् परं जात्यादिधर्मनिश्चयज्ञानमप्रमाणमेव युक्तमिति । प्रयोगः -- यद् गृहीतग्राहि ज्ञानं न तत्प्रमाणम्, यथा - स्मृतिः । गृहीतग्राही च प्रत्यक्षपृष्ठभावी विकल्प इति व्यापकविरुद्धोपलब्धिः ॥ १२९७ ॥
तदत्र यदि समारोपविषयव्यवच्छेदेन गृहीतमिति हेत्वर्थ:, तदा हेतोरसिद्धता, अथ यथाकथञ्चिद् गृहीतत्वादिति हेत्वर्थः, तदाऽनुमानेनानेकान्त इति दर्शयन्नाहसम्मुग्धानेकसामान्यरूपेणाधिगमे सति ।
२. स्वासामान्यां०- जै० /
१. विशेषणत्वस्या०- गा० ।
३. प्रामाण्यं पा०, गा० ।
Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444