Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 355
________________ ३२९ प्रत्यक्षलक्षणपरीक्षा अस्ति ह्यालोचनाज्ञानमाद्यं चेनिर्विकल्पकम्। बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥१२८५॥ [G.385) तथा हि-सर्वं प्रत्यक्षं पक्षीकृतम्, तत्र च सर्वत्र प्रत्यक्षाख्ये धर्मिणि सविकल्पकव्यवस्थितौ नास्ति च विशेषणविशिष्टार्थग्रहणं निमित्तमित्यस्य हेतोरसिद्धिः; आलोचनाज्ञानव्यतिरेकेणान्यत्र प्रत्यक्षे सामान्यादिविशेषणविशिष्टार्थग्रहणस्य विद्यमानत्वात्। अथालोचनाज्ञानमेव पक्षीकृत्य हेतुरभिधीयते, तदा सिद्धसाध्यतेति मन्यते 'परः। बालमूकादिविज्ञान सदृशमिति । बालविज्ञानसदृशम् मूकादिविज्ञानसदृशम्। आदिशब्देन सम्मूर्छितादिपरिग्रहः । अभिलापविशेषरहितत्वमात्रेण साम्यम् ॥ १२८५ ॥ शुद्धत्वं पुनर्वस्तुनः; सामान्यद्वयविविक्तत्वात् । तदेव द्वितीयेन श्लोकेन स्पष्टयति न विशेषो न सामान्यं तदानीमनुभूयते। तयोराधारभूता तु व्यक्तिरेवावसीयते ॥१२८६॥ . विशेष इति अवान्तरसामान्यं गोत्वादि। सामान्यमिति महासामान्यं वस्तुत्वादि। तयोराधारभूतेति । अनेन शुद्धं वस्तु दर्शितम् ॥१२८६॥ . ततः परमित्यादिना तामेव पक्षैकदेशासिद्धतां हेतोरभिव्यनक्ति ततः परं पुनर्वस्तु धमॆर्जात्यादिभिर्यया। - बुद्ध्याऽवसीयते सापि प्रत्यक्षत्वेन सम्मता ॥१२८७॥ ततः परमिति शुद्धवस्तुग्रहणोत्तरकालम् । यया बुद्ध्या वस्तु व्यवसीयते जात्यादिभिर्विशेषणैः, सापि प्रत्यक्षत्वेन सम्मतेति योज्यम्। जात्यादिभिरित्यनेन विशेषणविशिष्टार्थग्रहणं दर्शयति । अनेन चानधिगतार्थाधिगन्तृत्वं हेतोश्चासिद्धतोक्ता भवति ॥ १२८७॥ . पुनः पुनर्विकल्पेऽपि यावानधिगमो भवेत्। तत्सम्बन्धानुसारेण सर्वं प्रत्यक्षमिष्यते॥१२८८॥ पुनः पुनरिति तृतीयादौ क्षणे। यावानिति । अनधिगतार्थाधिगन्तेति शेषः। तत्सम्बन्धानुसारेणेति तस्याक्षस्य सम्बन्धानुसारेण ॥ १२८८ ॥ ____ स्यादेतत्-यदि प्रथमतोऽक्षव्यापारकाले सकलजात्यादिधर्मसमन्वितं वस्तु भासते, तत् तहत्तरकालमपि न भासेत; अविशेषात् ? इत्याह · न हि प्रविष्टमात्राणामुष्णाद् गर्भगृहादिषु। अर्था न प्रतिभान्तीति गम्यन्ते नेन्द्रियैः पुनः ॥१२८९॥ [G.386] उष्णादिति प्रभास्वरात्। प्रविष्टमात्राणामिति योज्यम्। गम्यन्ते नेन्द्रियैरति। अपि तु गम्यन्त एवेति काक्वा दर्शयति ॥ १२८९॥ एवं दृष्टान्तं प्रसाध्य दार्टान्तिके उपसंहरन्नाह यथा त्वाभासमात्रेण पूर्व ज्ञात्वा स्वरूपतः। पश्चात् तत्र विबुद्ध्यन्ते तथा जात्यादिधर्मतः॥१२९०॥ ... २. सम्मूर्छितपरि०- पा०, गा० । ३.० सद्धर्म- जै० पाठा० । १. मीमांसक इत्यर्थः।

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444