Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 362
________________ ३३६ तत्त्वसंग्रहे हेतुः, तदाऽनैकान्तिकता; स्मृतिबुद्धौ विपक्षभूतायामपि तद्भावभावित्वस्य 'समन्वयात् विद्यमानत्वात् । यच्च तद्विकारिविकारित्वम्; तदपि साक्षादसिद्धम् । पारम्पर्येणाप्युपादीयमानमनैकान्तिकमेव; यतोऽश्वायां गर्दभेन जातस्य वेगसरस्य कलकाद्यवस्थाव्यवधानेऽपि गर्दभरूपानुकारेण तद्विकारित्वस्य पश्चाद् दर्शनाद्, अतो नास्मात् साक्षादुत्पत्तिः सिध्यति । 'मानसी च भ्रान्तिर्विचारान्निवर्तते' इत्यत्राप्यनैकान्तिकत्वं भावसामान्यबुद्धिभिः । न हि भवतां युक्त्या सामान्याभावमवगच्छतामपि भावेषु घटादिषु - भाव इति वा, सामान्यमिति वा सामान्याकारो विकल्पो निवर्त्तते । अथ मन्यसे - निवर्त्तन्त एव युक्त्या विचारयतः सामान्यबुद्धयः' स्वलक्षणे नैताः प्रवर्त्तन्ते' इत्यनेनाकारेणेति ? तदैतदप्यनुत्तरम्; चन्द्रद्वयादिबुद्धयोऽपि युक्त्या विचारयतः 'स्वलक्षणे नैताः प्रवर्त्तन्ते' इत्यनेनाकारेण निवर्त्तन्त एव । न च तावता मानस्यो भवन्ति । सत्ता तासां न निवर्त्तत इति चेत् ? तत् तुल्यं सामान्यबुद्धिभिः । न हि तासामपि स्वभावो निवर्त्तते ॥ १३१४-१३१९॥ तद्भावभावितेत्यादिना प्रतिविधत्ते तद्भावभाविता साक्षात्र सिद्धाऽभ्रान्तचेतसा । व्यवधानं न सिद्धं हि न हि तद्वेद्यतेऽन्तरा ॥ १३२० ॥ अन्यार्थाशक्तचित्तोऽपि द्विचन्द्रादि समीक्षते । अविच्छिन्नमतो नास्ति पारम्पर्यसमुद्भवः ॥ १३२१ ॥ भावसामान्यबुद्धीनां प्रतिसंहारसम्भवे । निवृत्तिः सम्भवत्येव स्वेच्छयेशमतेरपि ॥ १३२२ ॥ [G.394] नासिद्धा, अपि तु सिद्धैव; कस्मात् ? अभ्रान्तेनैकचन्द्रचेतसा व्यवधानासिद्धेः । तस्योपलभ्यस्यान्तरालेऽनुपलभ्यमानत्वात्। एतदेवान्यार्थेत्यादिना स्पष्टीकुरुते । अविच्छिन्नं द्विचन्द्रादीति सम्बन्धनीयम् । अत एव तद्विकारविकारित्वस्याप्यव्यभिचारः । न हि तदपि व्यवहितम्, येन वेगसरादिभिर्व्यभिचारः स्यात् । भावसामान्यबुद्धीनामपि यदेच्छया संहारं कुरुते, तदा निवृत्तिरस्त्येव । न तु केशोण्ड्रकादीनां संहारः सम्भवतीति नानैकान्तिकता । इन्द्रियज्ञानस्यापि चक्षुषीच्छया निमीलिते निवृत्तिरिच्छावशात् सम्भवतीति चेत् ? न हि समनन्तरमिच्छानिवृत्तौ निवर्त्तते चक्षुर्विज्ञानम्, किं तर्हि ? चक्षुर्निमीलनं तावदिच्छावशाद् भवति, ततो निवृत्ते चक्षुषि तज्ज्ञानं निवर्त्तते, मानसी तु भ्रान्तिः साक्षादिच्छावशान्निवर्त्तत इति न समानम् । इत्थं चैतदवसेयंम् – यतः प्रणिहिते चक्षुष द्रष्टुमनिष्यमाणोऽप्यर्थो दृश्यत एव, अतो नेच्छायाश्चक्षुरादिज्ञाने साक्षात् सामर्थ्यम् ॥ पीतशङ्खादिबुद्धीनां विभ्रमेऽपि प्रमाणता' । अर्थक्रियाऽविसंवादादपरे सम्प्रचक्षते ॥ १३२३ ॥ केचित्तु स्वयूथ्या एवाभ्रान्तग्रहणं नेच्छन्ति, भ्रान्तस्यापि पीतशङ्खादिज्ञानस्य प्रत्यक्षत्वात् । तथा हि-न तदनुमानम्; अलिङ्गजत्वात् । प्रमाणं च; अविसंवादित्वात् । अत एवाचार्यदिङ्नागेन लक्षणे न कृतमभ्रान्तग्रहणम् । " भ्रान्तिः संवृत्तिः सा ज्ञानमनुमानम्" ( ) १. समन्धयाद् - पा०; पारम्पर्यात् गा० । २ प्रमाणताम्- पा०, गा० । ३. आचार्यदिङ्नागादय इत्यर्थः '

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444