Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 349
________________ प्रत्यक्षलक्षणपरीक्षा ३२३ सविकल्पकभावस्य स्थितेराक्षे निबन्धनम्। विपक्षः - शाबलेयादिरन्यथाऽतिप्रसज्यते॥१२५८॥ न चाप्रसिद्धता हेतोर्जात्यादेः प्रतिषेधतः। भेदेन चापरिच्छेदान्न चास्त्येवं विशेषणम्॥१२५९॥ प्रयोगः-तस्य यद्रूपं व्यवस्थितौ निमित्तं नास्ति, न तत् तथा प्रेक्षावद्भिर्व्यवहर्तृभिर्व्यवस्थाप्यते, तद्यथा-अविद्यमानगोप्रज्ञप्तिनिमित्तभूतककुदादिसमुदायः कर्को गोत्वेन । नास्ति च प्रत्यक्षस्य नीलाद्यसाधारणविषयबलेनोत्पद्यमानस्य सविकल्पकभावव्यवस्थितौ विशेषणविशिष्टार्थग्रहणं निमित्तमिति कारणानुपलब्धिः । वैधhण शाबलेयबाहुलेयादयः । सर्वथा सर्वस्य व्यवस्थानप्रसङ्गो व्यवस्थापयितुश्चाप्रेक्षापूर्वकारिताप्रसङ्गो बाधकं प्रमाणमिति संक्षेपार्थः । कर्क:-शुक्लोऽश्वः । जात्यारिति। विशेषणस्येति शेषः । सन्तु नाम वस्तुभूता जात्यादयः तथाऽपि नासिद्धतेति दर्शयत्राह-भेदेन' चापरिच्छेदादिति' । विशेष्यत्वेनाभिमताद्रूपादेरित्यध्याहार्यम्। यदि नाम भेदेनापरिच्छेदो जातः, तथापि विशेषणं कस्मान्न भवति? इत्याहन चास्त्येवमिति । भेदेनापरिच्छिन्नम्। तस्माद्विशेषणविशिष्टार्थग्रहणं न विद्यत इत्यस्य हेतो - सिद्धता ॥ १२५६-१२५९।। स्यादेतत्-मा भूज्जात्यादिकं विशेषणम्, शब्दस्वरूपमेव तु विशेषणं भविष्यति? इत्याह नामापि वाचकं नैव यच्छब्दस्य स्वलक्षणम्। स्वलक्षणस्य वाच्यत्ववाचकत्वे हि दूषिते॥१२६०॥ अध्यारोपितमेवातो . वाच्यवाचकमिष्यते। • अनारोपितमर्थं च प्रत्यक्षं 'प्रतिपद्यते॥१२६१॥ स्वलक्षणस्य सद्भावे सद्भावात् तदभावतः। व्यवधानादिभावे च तस्यापि व्यतिरेकतः॥१२६२॥ [G.378] न हि स्वलक्षणे सङ्केतः, नापि शब्दस्वलक्षणैः; तयोर्व्यवहारकालेऽनन्वयात् । न च स्वलक्षव्यतिरेकेणान्यच्छब्दस्वरूपमस्ति । न चासंकेतितोऽर्थः शब्देन योज्यते; अतिप्रसङ्गात्। नापि शब्दयोजनमन्तरेण विकल्पः । तस्मादध्यारोपित एव वाच्यवाचकभावः, न पारमार्थिकः। स्यादेतद्- आरोपितमेंवार्थं तर्हि प्रत्यक्ष प्रतिपद्यमानं सविकल्पकं भविष्यति? इत्याहअनारोपितमित्यादि। तदभावत इति । तस्यापि व्यतिरेकत इति सम्बन्धः । तस्य स्वलक्षणस्याभावात्, तस्यापि प्रत्यक्षस्य व्यतिरेकतोऽभावादिति यावत् । कदा स्वलक्षणस्याभावः? इत्याह-व्यवधानाति । आदिशब्देन देशकालविप्रकर्षादिः ॥ १२६०-१२६२ ।। अशक्यसमय इत्यादिना प्रमाणान्तरमप्याह अशक्यसमयोह्यात्मा नीलादीनामनन्यभाक्। तेषामतश्च संवित्ति भिजल्पानुषङ्गिणी॥१२६३ ॥ १-१. भेदेनापरिल-पा०, गाल। २. अर्थस्वलक्षण इत्यर्थः।

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444