Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 348
________________ ३२२ तत्त्वसंग्रहे शुद्धे च मानसे कल्पे व्यवसीयेत न क्रमः। तुल्या' च सर्वबुद्धीनामाशुवृत्तिश्चिरास्थितेः॥१२५१॥ अतः सर्वत्र विषये न क्रमग्रहणं भवेत्। सकृद्ग्रहणभासस्तु भवेच्छब्दादिबोधवत्॥१२५२॥ [G.376] एकैका धीः पञ्चभिर्धीभिर्व्यवधीयमानाऽपि नर्तकीदर्शनावस्थायामव्यवहितेव प्रतिभाति। तथा हि- यदैव नर्तकीमुत्पश्यति तदैव गीतादिशब्दं शृणोति, कर्पूरादिरसमास्वादयति, नासिकापुटविन्यस्तकुसुमामोदं जिघ्रति, व्यजनानिलादिस्पर्श च स्पृशति, वस्त्राभारणादिदानादि च चिन्तयति; ततश्च यदि बहुभिर्व्यवधानेऽपि बुद्धीनां सकृद्भावभ्रान्तिराशूत्पत्तिबलादुपजायते, तदा लता तालः, सरो रसः-इत्येवमादावेकैकज्ञानव्यवधानाद् वर्णश्रुतीनामत्यर्थं लघु वर्त्तनमस्तीति सकृद्वर्णप्रतिभासः प्राप्नोति। ततश्च संरो रस इत्यादौ शब्दे श्रूयमाणे श्रुतिभेदः, अर्थप्रतीतिभेदश्च न स्यात्।। किञ्च–बुद्धेर्विजातीयचक्षुरादिविज्ञानाव्यवहिते नानाविधार्थचिन्तारूपे विकल्पे समुत्पद्यमाने शीघ्रवृत्तिरस्तीति न क्रमव्यवसायः प्राप्नोति। सर्वासां च बुद्धीनां क्षणिकत्वेन चिरानवस्थानादाशुवृत्तिरस्तीति कस्यचिदर्थस्य न क्रमवती प्रतीतिः स्यात् । शब्दादिबोधक दिति। नर्तकीप्रेक्षावस्थायां शब्दादिसंवेदनवत् ॥ १२४९-१२५२॥ . यश्चायमलातवदिति दृष्टान्तः स साध्यविकल इति दर्शयन्नाह- .. अलातेऽपि सकृद् भ्रान्तिश्चक्राभासा प्रवर्त्तते। न दृशां प्रतिसन्धानाद् विस्पष्टं प्रतिभासनात्॥१२५३॥ तथा हि प्रतिसन्धानं स्मृत्यैव क्रियते न तु। दर्शनेन व्यतीतस्य विषयस्यानवग्रहात्॥१२५४॥ यश्चास्या विषयो नासौ विनष्टत्वात् परिस्फुटः। ... ततः परिस्फुटो नायं चक्राभासः प्रसज्यते॥१२५५॥ यतो नेयं मानसी भ्रान्तिः क्रमवर्तिनी दर्शनानि घटयन्ती समुपजायते, किं तर्हि ? सकृदेकैवेन्द्रियजा चक्राकारा भ्रान्तिः सामग्रीविशेषबलादुत्पद्यते; विस्पष्टप्रतिभासत्वात्। न हि विकल्पानुबद्धस्य स्पष्टप्रतिभासित्वं युक्तम्। तथा हि- घटना [G.377] क्रियमाणा स्मृत्यैव क्रियते, नेन्द्रियज्ञानेन; तस्य वस्तुसन्निधानबलभाविनोऽतीतार्थग्रहणासामर्थ्यात्। यश्चास्याः स्मृतेर्विषयः, नासौ परिस्फुटः; कस्मात् ? विनष्टत्वात् । तस्मादस्पष्टाभत्वप्रसङ्गानेयं मानसी भ्रान्तिः, किं तर्हि ? इन्द्रियजा- इति साध्यविकलो दृष्टान्तः ॥ १२५३-१२५५ ॥ एवं प्रत्यक्षतो धियः कल्पनाविरहं प्रतिपाद्य साम्प्रतमनुमानतः प्रतिपादयति यदि चाप्यस्य भावस्य यद्रूपस्थितिकारणम्। न विद्यते न तत्त्वेन स व्यवस्थाप्यते बुधैः ॥१२५६॥ अविद्यमानसास्नादिर्यथा कर्को गवात्मना। विशेषणविशिष्टार्थग्रहणं. न च विद्यते॥१२५७॥ २. विशिष्टार्थे ग्रहणं- पा०, गा० । १. अल्पा -पा०, गा०।

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444