Book Title: Tattvasangraha Part 01
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

Previous | Next

Page 307
________________ शब्दार्थपरीक्षा २८१ यथा सप्रतिघं रूपं सनिदर्शनमित्यपि। . स्वदेशे परस्योत्पत्तिप्रतिबन्धकारित्वाद् रूपं सप्रतिघमित्युच्यते। निदर्शनम्-चक्षुविज्ञानम्; तज्जनकत्वात्, सह तेन वर्त्तत इति सनिदर्शनम्। द्वितीयमप्युदाहरणमाह प्रयत्नानन्तरज्ञातो यथा वा श्रावणो ध्वनिः॥१०३९॥ यथा हि-ध्वनिरेकोऽपि सन् प्रयत्नान्तरज्ञानफलकतया प्रयत्नानन्तरं ज्ञातं इत्युच्यते। श्रोत्रज्ञानफलत्वाच्च श्रावणः । श्रवणं हि श्रुतिः, श्रोत्रज्ञानमिति यावत् । तत्प्रतिभासितया तत्र भवः श्रावणः । यद्वा श्रवणेन गृह्यत इति श्रावणः ॥ १०३९ ॥ एवमतत्कार्यभेदेनैकस्मिन्नप्यनेका श्रुतिर्निवेश्यत इति दर्शितम्, इदानीमतत्कारणभेदेनापि क्वचित् श्रुतिर्निवेश्यत इति दर्शयति अतत्कारणभेदेन क्वचिच्छब्दो निवेश्यते। प्रयत्नोत्थो यथा शब्दो भ्रामरं वा यथा मधु॥१०४०॥ भ्रामरमिति। भ्रमरंकृतम्, क्षुद्रादिकृतान्मधुनो व्यावृत्तम्॥ १०४० ॥ एवमतत्कार्यकारणपदार्थभेदादैकस्मिन् वस्तुनि श्रुतिभेदो दर्शितः । इदानीं तत्कार्यकारणपदार्थव्यवच्छेदमात्रप्रतिपादनेच्छयाऽन्तरेणापि सामान्यं श्रुतेर्भेदनिवेशनं दर्शयन्नाह तत्कार्यहेतुविश्रूषात् कचिच्छुतिरिहोच्यते। अश्रावणं यथा रूपं विदयुद्वाऽयत्नजा यथा॥१०४१॥ [G.327] तौ-पूर्वोक्तौ, कार्यहेतू येषां ते तथोक्ताः । तेभ्यो विश्रेषः व्यावृत्तिः । का पुनरसौ श्रुतिः? इत्याह- अश्रावणमित्यादि। श्रोत्रज्ञानफलशब्दव्यवच्छेदेनाश्रावणं रूपमित्युच्यते। तथा प्रयत्नकारणघटादिपदार्थव्यवच्छेदेन विद्युदप्रयत्नजेत्यभिधीयते॥१०४१ ॥ एवमन्तरेणापि सामान्यादिकं वस्तुभूतं व्यावृत्तिकृतमेव शब्दानां भेदेन निवेशनमिति प्रतिपाद्य, पर्यायत्वप्रसङ्गाभावं दर्शयन्नाह ' इत्यादिना प्रभेदेन विभिन्नार्थनिबन्धनाः। . व्यावृत्तयः प्रकल्प्यन्ते तनिष्ठाः श्रुतयस्तथा॥१०४२॥ यथासङ्केतमेवातोऽसङ्कीर्णार्थाभिधायिनः । ... शब्दा विवेकतो वृत्ताः पर्याया न भवन्ति नः॥१०४३॥ आदिग्रहणेनावस्थाविशेषवाचका बालादिशब्दा नैरात्म्यादिशब्दा गृह्यन्ते। विभिन्नार्थनिबन्धना इति । विभिन्नतस्ततो व्यावृत्तोऽर्थो निबन्धनं यासां व्यावृत्तीनां तास्तथोक्ताः। तथेति व्यावृत्तिवत्। तन्निष्ठा इति व्यावृत्तार्थनिष्ठाः; प्रणालिकया तथाविधपदार्थाधिगतिहेतुत्वात्। श्रुतय इति शब्दाः ॥ १०४२-१०४३॥ ___स्यादेतत्-मा भूत् पर्यायत्वमेषाम्, अर्थभेदस्य परिकल्पित्वात्; सामान्यविशेषवाचित्वव्यवस्था तु विना सामान्यविशेषाभ्यां कथमेषां सिध्यतीति? अत आह बह्वल्पविषयत्वेन तत्सङ्केतानुमानतः। सामान्यभेदवाच्यत्वमप्येषां न विरुध्यते॥१०४४॥ १. ०ज्ञानो-पा०, गा०।

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444